________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
शनिखम्। मानं स्वयं योऽग्न्य दकादिभिः। विहितं तस्य नाशौचं नाम्नि प्युदकादिकम्। पथ कथित प्रमादेन बियते. ऽग्निविषादिभिः। तस्याशौच विधातव्य कार्यञ्चाप्य दका. दिकम्'। आत्मानं स्वदेहं स्वयमित्युपादानात् एवञ्चाबैधबुद्धिपूर्वकात्मघातिनोऽशौचे पयंदस्ते तदितरस्याशौचप्राप्तौ यत् पुनरभिहितमथ कश्चित् प्रमादेनेत्यादिना तदग्न्यादिभिः प्रमादमरणे सत्यशौचविशेषज्ञापनार्थं तच्च काश्यपोक्तं विरा. त्रम्। अग्निविषादिभिरित्यादिपदं रोगव्यतिरिक्त हेतुपरम् । काश्यपः 'अनशनमृतानामनिहतानामग्निजलप्रविष्टानां भृगुसंग्रामदेशान्तरमृतानां जातदन्तानां गर्माणां विरात्रमिति'। अनशनमृतानां शास्त्रानुमत्यापि तत्र फल्या. न्याह दानरत्नाकरे नरसिंहपुराणम्। 'जलप्रवेशो चानन्द प्रमोदं वह्निमाहसी। भृगुप्रपाती सौख्यन्तु रणे चैवातिनिर्मलम्। अनशनमृतो यः स्यात् स गच्छेत्तु त्रिपिष्टपम्' । आनन्दादयस्तु स्वर्गविशेषाः । 'एकविंशत्यमी वर्गानिर्मिता. मेरुमूई नि' इत्य पक्रम्याभिधानात् तीर्थ काण्ड कल्पतरौ आदि. त्य पुराणञ्च 'कीदृशैस्तु तपो दानः पुरी पश्यन्ति मानवाः' । भानुरुवाच । 'राज्यार्थं निहता ये च राजानो धर्मतत्पराः । अग्निविद्युद्धता ये च सिंहव्याघ्रहताश्च ये। प्राप्नुवन्ति च ते सर्वे पुरोमैरावती शभाम्। साक्षाद्धि भगवानग्निर्नागस्य वसते मुखे। सिंहव्याघ्रगजेन्द्राणां विष्णु रेव व्यवस्थितः । विद्युदग्निहता ये च सिंहव्यावहताच ये। नागैश्चैव हता ये च ते नराः पुण्यकर्मिणः'। एतच्च प्रमादवैधान्यतरकत. मरणविषयम्। कौमें 'यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः। नियमेन त्यजेत् प्राणान् मुच्यते सर्वपातकैः' । नियमेन तत्तत्सङ्कल्पपूर्वकजलप्रवेशादिना जल प्रवेशाहिकन्तु
For Private and Personal Use Only