________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्तित्वम्।
२८३
म्बन्धिनो हिजान् दहित्वा वहित्वा सद्यः शौच सम्बन्धे तु विरात्रमिति ऊढ़कन्यानान्तु दाहादिकं विनापि अन्यथा तहोढरशौचं न तस्या इति महद्वैषम्यं स्यात्। तत्रायं 'विशेष: दानध्यायने वर्जयेरन् दशाहं सपिण्डेषु गुरौ वा सपिण्डे विरावमितराचार्येषु' इति आखलायनवचने दशाहा. शौचमुपक्रम्य त्रिराविधानाद् यादृग्वयसि यादृमरणे सपिण्डानां दशाहं तादृग्वयसि तादृमरणे आचार्य्यादीनां विरानादि अन्यथा मातुले पक्षिणी रात्रिमिति मनुवचने नाजातदन्तमातुलमरणेऽपि भागिनेयस्य पक्षिणी स्यात् तत्सपिण्डानां सद्यःशौचमादन्तजननात् सद्य इत्यादि नेति महवैषम्यं स्यात् अत्रानढ़कन्यायाः पित्रादिमरणे संपूर्णाशौच कार्यमिति रायमुकुटप्रभृतयः तत्र 'अपुत्रस्य च या पुत्री सैव पिण्ड प्रदा भवेत् । तस्य पिण्डान् दशैतान् वै एकाहेनैव निर्वपेत्। इति वचनेन यावदशौच पिण्डान् दद्यादिति वचनयोरेकवाक्यतया एकाहो युक्तं एकाहे. दशपिण्ड दानविचारेण एकाहाशौचाभ्युपगमात्। वृद्धशातातपः । 'यदा भोजनकाले तु अशुचिर्भवति हिजः । भूमौ नि:क्षिप्य तं ग्रास खात्वा विप्रो विशद्धाति । भक्षयित्वा तु तं ग्रास अहो. रात्रेण शुद्यति। अशित्वा सर्वमेवाब त्रिरावेण विशुद्धयति । अत्र भोजनगततारतम्येन नानादिप्रायश्चित्तभेदाबानाशुचि. पदं नानार्दाशौचमात्र परम् अन्यथा स्नानविधानं व्यर्थं स्यात् मरणपुत्रजन्मज्ञानादेव तत्प्राप्तेः किन्तु सपिण्ड समानोदकजननाचार्यादिमरणाशौचिपरमप्यविशेषात् अतएव अशुचिः सूतकादिनेत्यर्थः इति प्रायश्चित्तविवेकः। अहोरात्रेणोपोषितेन एवं त्रिरात्रेण प्रायश्चित्तप्रकरणात्।
अथ मृत्युविशेषाशौचम्। कूर्मपुराणे 'व्याप्यादयेदथा
For Private and Personal Use Only