________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
शुद्धितत्वम्।
अरिक्थभाजः क्षेत्रिणामित्यर्थः एवकारेण हिपिटकत्वं निर. स्तम्। तदेतच्छुल्कतः स्त्रोसंग्रहे बोद्धव्यं शुल्काभावे क्षेत्रिण एव पिण्डदा इति श्राद्धविवेकः। वस्तुतस्तु प्रागुतादित्य. पुराणवचनात् कलौ क्षेत्रजपुत्र करणनिषेधात् स च पुत्रो वौजिनामेव इदानी व्यवहारोऽपि तथा। 'जातापि दास्यां शूद्रेण कामतोऽशहरो भवेत्। मृते पितरि कुर्य्यस्त भ्रातरस्वभागिनम्। इति याज्ञवल्कादर्शनाच्छद्राणामेव तथाविधाचारो नान्येषां वर्णानामिति अतएव प्रागुक्तब्रह्मपुराण. वचनमप्येतत्परम् । यत्त 'अन्य पूर्वा रहे यस्य भाया स्यात्तस्य नित्यशः। अशोचं सर्वकार्येषु देहे भवति सर्वदा। दानं प्रतिग्रहं स्नानं मवें तस्य तथा भवेत्' इति ब्रह्मपुराणवचनानन्तरं तद्ग्रह इत्युपादानात् समस्तरह कार्यकारिणी यस्येत्यर्थः । इति हारलतादत्तविषयम् । अत्र प्रतिग्रहश्रवणादब्राह्मणभानपरं यस्येति विप्रविशेषणत्वेऽप्युपपद्यते । तथाच शङ्खः 'होनवर्णा तु या नारौ प्रमादात् प्रसवं व्रजेत् । प्रसवे मरणे तज्जमशौच नोपशाम्यति'। हौनवर्णात्र शूद्रा प्रमादात् परिणयं विना कृतसंग्रहात्। तेन यद्यपरिणीता शूद्रोत्तमवर्णादपत्यमुत्यादयति तदा तस्याः प्रसवमरणजमशौचं तहजनक स्य यावज्जौवं भवतीत्यर्थ इति शुद्धिचिन्तामणिः । यत्तु शङ्खलिखितौ 'अन्य पूर्वासु भार्यासु कतकेषु मृतेषु च । नानध्यायो भवेत्तत्र नाशौच नोदकक्रिया' इति तदपकष्टजातिविषयम्। मिताक्षरायां वृद्ध याज्ञवल्काः। संस्थिते पक्षिणी रात्रि दौहित्रे भगिनी सुते । संस्कृते तु विरात्र स्यादिति धर्मो व्यवस्थितः। पित्रोरुपरमे स्त्रीणामूढ़ानान्तु कथं भवेत्। त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान्मनुः । संस्थते खयं दाहादिना संस्कृते। तथाच. पैठौनसि: अस
For Private and Personal Use Only