SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । २३४ यित्वा पिता नाम करोति' इति पारस्करवचनात् । न च दशम्यामित्य स्योपलक्षणपरत्वे प्रमाणाभाव इति वाच्यं ब्राह्म. णानित्यादिना तदुत्तरदिने वृद्धिशाइसम्बन्धिब्राह्मणभोजन. पूर्वकनामकरणविधानात्। न च अशौचाभ्यन्तर एव नामकरणं 'नामधेयं दशम्यान्तु हादश्यां वाथ कारयेत्' इति मनुवचनात् हरिशर्मोतयुक्तमिति वाच्यम् अशौचव्यपगमे नामधेयमिति विष्णु विरोधात्। अतएव दशम्यामिति निवृत्ताशौचपरमिति ब्रह्मचारिकाण्डम् । एतच्च सङ्करेणाशौचहासे तदानीं नामकरणे बोध्यम् एतत् परमेव दिगविशिवशताह इति दीपिकोक्त सङ्गच्छते। अविर्वादशाह: अवयः शैलमेपार्का इत्यमरकोषात् पारस्करोयदशम्यामित्यस्यानुपलक्षणत्वे सूतकं तत् स्यात् सूत्याशौचमित्येतयोः सङ्कोचापत्तेः यत्र ब्राह्मणस्य संपूर्णाशौचं तत्र क्षत्रियादीनामपि तथैव युक्त. त्वाच। एतेन क्षत्रियादीनामपि दशाहमध्य एव वालक. मरणे अङ्गास्मृश्य त्वयुक्त मशौचमुत्थानावधि तदूर्धन्तु सद्यः शौचम्। 'बालस्त्वन्तर्दशाहे तु प्रेतत्व यदि गच्छति। सद्य एव विशुद्धिः स्यानाशौचं नैव सूतकम्। इति शसोतनयेनोस्थानञ्च दशमदिन इति निरस्त तस्मादेतच्छववचनं मातापिटव्यतिरिक्तानां सपिण्डानां सद्यः शौचविधायकम् अन्तर्दशाहपद त्रु स्वस्खजात्यताशौचाहपरम् । एवञ्च सूतकं तत्स्यादित्यभिधानात् तत्र बालस्य शृगालादिहतत्वेऽपि मरणनिमित्त को विशेषः । यच्चान्तःसूतक इल्युभयोरपि कन्यापुत्रयोः सूतकमध्ये मरणे मातापिचोर्दशाहपर्यन्तमेवाशौचमिति सञ्चिन्त्यम् अहिवर्ष प्रेते इत्यनेन पुस: प्रकृतत्वात्। न च निमित्तविशेषणत्वात् पुस्त्वसविवक्षितमिति वायं तथाले अहिवर्षीयकन्यामरणेऽप्येकरात्रं त्रिरात्र वेति स्यात्। न च For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy