SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६८ Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । वोढ़भावस्वरूप योग्यतारहितः शूद्रो नपुंसक इति यावत् पुंलिङ्गस्तु छान्दस इति वदन्ति । न च षोड़शादर्षात् पर मित्यत्रानूढभाय्र्यत्व विशेषणमपि व्यर्थमिति वाच्य' तद्विशेषणेन न्यायवर्त्तिनां शूद्राणां षोड़शवर्षोपरि विवाहकालः कल्पते । तथाहि 'शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् । वैश्य - वच्छौचकल्पच दिजोच्छिष्टञ्च भोजनम्' इति मनुवचनान्यायवर्त्तिशूद्राणां वैश्य वच्छौ च कल्पचेत्यत्र चकाराद्देश्यधर्माति देशेनोपनयनप्रसक्तौ ततस्थाने ब्रह्मपुराणेन विवाह विधौयते । यथा विवाहमात्रं संस्कारं शूद्रोऽपि लभते सदा' इति तत्रोपनयनकालश्च 'गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथा कुलम्' इति याज्ञवल्कयोक्तेः । सैके एकादशाह इत्यनुषङ्गात् द्वादशवर्ष इत्यर्थः अत्र चोत्तरोत्तरकालदर्शनात् शूद्रस्याप्युपनयनस्थानाभिषिक्तविवाहस्य तथैव युक्तत्वात् श्रतएव यथा कुलमित्यतिदेशेन षोड़शाद्दत्सरात् प्रागपि विवाहो दृश्यते स तु न प्रकृष्ट इति विशेषः । प्रतिलोमजातानान्तु 'शौचाशौच प्रकुवरन् शूद्रवद्दर्णमङ्कराः । इति आदिपुराणाद व्यवस्था इदानौन्तन क्षत्रियाणामपि शूद्रत्वमाह मनुः । ' शनकैस्तु क्रियालोपादिमाः चत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च' । श्रतएव विष्णुपुराणं 'महानन्दितः शूद्रा गर्भोवोऽतिलुब्धो महापद्मो नन्दः । परशुराम इव अपरोऽखिलक्षत्रियान्तकारी भविता ततः प्रभृति शूद्रा भूपाला भविष्यन्ति' इति तेन महानन्दिपय्र्यन्तं चत्रिय आसीत् । एवञ्च क्रियालोपाडेयानामपि तथा । एवमंम्बष्ठादीनामपि जातिप्रसङ्गादुक्तम् । श्रउत्थानादिति उत्थानपर्यन्तम् । उत्थानञ्च स्वखआत्युक्ता शौचान्तदिन एव 'दशम्यामुत्थाप्य ब्राह्मणान् भोज For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy