________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
शहितत्त्वम्। जननाशौचतुल्यकालौनमरणाशौचस्व गुरुत्वाभिधानमडा. स्पृश्यत्वादिना नैयायिकं न तु वाचनिक गौरवात्। एतेन मरणसम्बन्धि सद्यः शौचादिना दशाहजननाशौचनिवत्तिर्वाचनिकमिति मैथिलमतमपास्तम् एवमेव हारलतादयः । ततस्तु पुत्रवत्या विंशतिरानाशौचान्तदिने पत्यमरणे बहुकालौनाशौच कालेन यथा शुद्धिस्तथा सपिण्ड हयजननजात. त्वाद्दशाहान्तदिने पितुर्मातुर्भक्षुर्वा मरणे तेनैव शुद्धिः एव. मन्यत्र एवं मृतजाते तु अजातदन्तत्वेन मरणस्य खल्पकालौनाशौचस्य निमित्तत्वात् जननाशौचमेव दशाहं तथा मिताक्षरायां पारस्करः। 'गर्भे यदि विपत्तिः स्याद्दशाह सूतकं भवेत्। दशाहमिति स्वस्वजात्यक्ताशौचपरम् एतच्च नवमादिमासमतजात विषयम्।
अथ गर्भस्रावाशौचम्। तत्र कूर्मपुराणम्। 'अर्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भसंस्रवः। तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते। अत ऊर्छन्तु पतने स्त्रीणां स्थाद्दशरात्रकम्। सद्यः शौचं सपिण्डानां गर्भस्रावाच्च वा ततः। गर्भच्युतावहोरात्र सपिण्डे ऽत्यन्तनिर्गुणे। यथेष्टाचरणे जाते त्रिरात्रमिति निश्चयः'। दशराव कमिति स्वस्त्र. जात्युक्ताशौच कालपरम् । तथा च आदित्यपुराणम् । षण्मा. माभ्यन्तरं यावत् गर्भस्रावो भवेद यदि। तदा माससमैस्तासां दिवसैः शुद्दिरिष्यते। अत अङ्घ खजात्युक्तमशौचं तासु विद्यत'। गर्भस्रावाच्च वा तत इति तच्छब्देन सविधानादत ऊईमित्युक्तषण्मासोत्तरकालः परामृष्यते। षण्मासोपरि सगुणानां सद्य: निर्गणानामेकाहः अत्यन्तनिर्गुण यथेष्टा. चरणज्ञातीनां विरात्रम्। एवञ्च 'जातमृते मृतजाते वा सकुल्य स्य विरात्रम्' इति हारोतवचनं यथेष्टाचरणविषयम्।
For Private and Personal Use Only