________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
२५५
स्वव्यापारत्वाच्चाशौचहारैव निमित्तानां सायं फलोपधायक वाचम् अशौचरूपव्यापागनुबन्धेन प्रथमस्य मरणादेस्तदासत्वात्। तथाच शङ्कः । 'ममानाशौचं प्रथमे प्रथमेन समा. पयेत्'। एतच्च अशौचमाङ्गय्यं वक्ष्यमाणोशनोवचने स्फटी. भविष्यति। अतएव मनिबन्धभिरथाशौचमङ्कर इति प्रतिज्ञया निर्दिश्यत इति अन्तर्दशाह इति कालोपादानन्तु तत्कालाभ्यन्तर एव अशौच मानार्थं न तु तदनन्तरं स्नानादेः प्रागपि अशौचमार्थमिति प्रतिपादनार्थम् एतदपि पश्चात् स्फटीभविष्यति। यत्र तु पूर्वजातं निमित्तं पश्चाजज्ञातं पश्चाजातच पूर्व ज्ञातं तत्र निमित्तज्ञानजन्याशौ चपौर्वापर्य्यमगणयित्वैवाशौचखरूपयोग्यनिमित्तकालपौर्वा. घयादेवाशौचव्यवहारार्थञ्चेति। ततश्च जननं मरणञ्च दशा. हाद्यशौचं प्रति स्वरूपमन्निमित्तं फलोपधायकञ्च तदवधारणे अपि दाटग्रहोत्रोश्च सूतके सति चान्तग 'अविज्ञाते न दोषः स्याच्छाद्वादिषु कथञ्चन। विज्ञाते भोक्तरेव स्यात् प्रायश्चित्ता. दिकं कमात्' इति ब्रह्मपुराणात् यदा तु स्वोयमशौचं दाता न जानाति भोक्ता च जानाति तदा लोभात् भुञ्जानस्य भोक्तः प्रायश्चित्तम् अशौचन्तु दाटतुल्यं तच्च क्रमादशौचोत्तरकालं कर्त्तव्यमित्यर्थः। एवञ्च 'श्रुत्वा देशान्तरस्थे जननमरसे अशौचशेषेण शुद्धयत्' इति विष्णुवचने अशौचशेषेण इत्यस्याशौचयोग्याहः शेषेणेत्यर्थाद्विदेशस्थाशौचस्य जानिमित्तत्वात् खरूपयोग्यत्वम् अन्यथाशौचशेषेणे त्य पपन्न स्थात् श्रुत्वेत्यु पा. दानेन च तत्कालमध्ये श्रवणात् फलोपधानं ततश्च पूर्वनिमित्तकाले निमित्तान्तरपाते स्वरूपसमाजय्यं वृत्तं पूर्वनिमित्तकालाभ्यन्तरे उभय श्रवणे साय॑स्य कायं न तु धूर्वनिमिचकालोत्तरशवणेऽपि किन्तु अश्रुतपूर्वनिमित्तकाले
For Private and Personal Use Only