________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
शुचितत्त्वम् ।
स्पेन पितृमरणावध्येकादशाह एव कृत्य वृडौभूत दिनदयाभ्यन्तरे तृतीयमृतपिटकेस पूर्वमृतत्रयोदशाह एव कृत्य सपिण्डमात्रेण तु पूर्वमृतत्रयोदशाह एव कृत्यं कर्त्तव्यमिति प्रथममृतपिटकेण तु एकादशाह द्वादशा हान्यतरमृतस्य तदवधि दशाडाशौचमेव कर्त्तव्यमिति । ततथ अशौचवितयान्तद्वितीयदिनकृत्यं शय्यादानादि अत्रापि संगच्छते । पूर्वाशौचपराईपराशौचपूर्वाई मृतपितृकस्य तृतीयाशौचनिवृत्तिकाल एव शुद्धिः । पूर्वपरार्द्धमृतपितृकयोद्दितौयाशौचनिवृत्तिकाल एव शुद्धि: 'परतः परतः शुद्धिरघवृत्रौ विधीयते । स्याज्ञ्चेत्पञ्चतमादनः पूर्वेणाप्यनुशिष्यते' इत्यव परतः परतः इत्यवधारणार्थत्वात् अन्यथा वैयर्थत्वात् । एवं पूर्वार्द्ध निमित्तान्तरपाते पराई उभयोर्ज्ञाने गुरुणः परनिमित्तस्यापि पूर्वनिमित्ताशौचकालेनैव शुद्धिः विगतन्तु विदेशस्थमिति वच्य माणवचनात् । अथ सर्वस्मृतिप्रवलमनुस्मृती अन्तर्दशाह इति श्रवणाद यदि निमित्तस्य मरणादेः कालमध्ये निमित्तान्तरमुत्पद्यते तदा पूर्वनिमित्त कालमात्रमशौचम् । तत कालद्वारा निमित्तयौगपद्यमेव शुद्दिप्रयोजकं न तु नैमित्तकाशौचद्दारा यौगपद्यमपि इति । इत्थञ्च पूर्वनिमित्ते जातेऽज्ञाते वा परनिमित्तं पूर्वनिमित्तकालादुपरि स्वावधिदशाहाभ्यन्तरे श्रुतमपि न अशौचं जनयति तस्य तत्कालोनाशौचं प्रति अनिमित्तत्वात् इत्थञ्चाश्रुतपूर्वनिमित्तस्य तत्कालमध्यपातिद्वितीयनिमित्तश्रवणे यत्तदवध्यशौचाचरणं तद् भ्रान्त्यैवेत्याहुः तच्चिन्त्यम् । मरणादिसम्बन्धित्वेन सर्ववर्णसाधारणकालस्य बोधकाभावादशौचान्तर्भावेनैव तद्बोधनम् । अतएव मनुनैव 'न वर्द्धयेदघाहानि' इत्युक्तं ततश्च मरणादिसम्बन्धि स्वखाशौचाच परं दशाहपदमवश्यं वाच्यं ततश्च लाघवात्
For Private and Personal Use Only