________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शदितत्त्वम्।
२५३
रात्रियागन्तु जन्मदानाञ्च कारयेत्'। अत्र यागनिमित्तार्थमित्युपादानात् तत्कर्मण्येव शुद्धिर्नान्यस्मिन् । अत्र कारये. दिन्यन्यगोत्रजाभिप्रायेण तात्कालिक शुद्धौ पुत्रजन्मेति श्रुतेः । सथान्याशौचमध्येऽपि जातकर्मषष्ठीपूजे कर्तव्ये तथाच मिताक्षरायां परिशेषखण्डे प्रजापतिः। 'अशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत्। कर्तुस्ताकालिको शुद्धिः पूर्वाशौचाहि. शुद्धयति'। अत्र पुत्रजन्मेति श्रुतेः शूद्रस्याप्यधिकारः। एवं षष्ठदिनकृत्येऽपि पुत्ररक्षायाः कर्त्तव्यत्वादत: प्रागुक्तादित्यपुराणे हिजन्म नामित्यपलक्षणम्। ततश्च शुद्धाशुद्धयोः संस्कार. रूपत्वेनैकपुरुषस्यैकदोभयस्थितिघंटते। अशुद्धेर्भावरूपत्वे शुद्धेस्तदभावरूपत्त्वेनैवं विरोधात्। अतएव शङ्खः 'ततः श्राहमशहौ तु कुर्यादेकादशे तथा। कर्तुस्तात्कालिको शुद्धिरशद्धः पुनरेव सः' अशुद्धौ चतुर्थाहादौ कथमशद्धौ श्राद्धं कालाशौच स्याधिकारिविशेषणत्वादत आह कर्तुस्तात्कालिकौति श्राइविधानाक्षेपात्तन्माननिष्ठा शुद्धिः कल्पाते। स पुनरशुद्ध एव कर्मान्तर इति श्राइविवेकः। एवं शुद्धेर्भावरूपत्वे अशौचस्य तदभावरूपत्वेऽपि विरोधः। तथात्वे अशौच सङ्करोऽपि न स्यात् एकस्मिन् शुधभावरूपे अशीचे मति अपरस्य तद्रूपस्य तदानीं तत्पुरुषोयशद्धि रूपप्रतियोग्यन्तराभावादनुत्पत्तेः तस्मात् शुद्धाशुयोर्भावरूपत्वम् । यदा तु सपिण्डमरणाशौचदशमदिने अपर सपिण्ड मरण पूर्वाशौचस्य दिनयतया एकादशहादशदिने वा पित्रादिमरणं तदा पूर्वाशौचहादशाहेन बहुकालव्यापिना गुरुणा लघुकालव्यापिन: परतराशौचस्य शुद्धिः । 'अधानां योगपो तु ज्ञेया शाहिरीयसा' इति देवलवचनादत्र च प्रथममृतपिटकेण खावध्ये कादशाह एव कृत्यं द्वितीयमृतपिटकेण पराईपतित
२२-क
For Private and Personal Use Only