________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४४
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्त्वम् ।
।
पथाभौचसङ्करः । मनुः 'अन्तर्दशाहे स्वाताश्चेत् पुन मरणजम्मनौ । तावत् स्यादशुचिर्विप्रो यावत्तत् स्यादनिर्दशम्' इत्यनेन परजातस्य पूर्वजाताशौचसमानकालीना शौचस्य सङ्कोचं विना शुद्धेरजन्यत्वात् पूर्वाशौचकालेन पराशौचकालस्य सङ्कोचेाऽस्तु स्वल्पकालोनाशौचस्य तु वृद्धिं विनापि पूर्वाशौच स्थितेरशुद्धिर्भविष्यतीति तत्र कथं सहमरणे वृद्धि - रुक्ता इति चेत्र शङ्ख ेन तथोक्तत्वात् यथा 'समानाशौचं प्रथमे प्रथमेन समापयेत् । असमानं द्वितीयेन धर्मराजवचेा यथा' । प्रथमापतितं सजातीयाशौचं प्रथमेन समाययेत् अत्र प्रथमाईपतितत्वेन विशेषोऽघत्रमिदाशौ च विषयः । अघवृडिमदाशौच मूर्ख वेत्तेन शुद्धयति । अथ चेत् पञ्चमीं रात्रिमतीत्य परतो भवेत् । अघवृद्धिमदाशौचं तदा पूर्वेण शुद्धयति' इति कूर्मपुराणवचनात् एकस्मादशौचजन्मन ऊङ्घ परत: वृक्षवच्छास्त्रे व्यवहार इति न्यायात् तेनाशौचकालमध्ये यद्यघवृद्धिमदाशौचं तदा तेनाघवृडिमता द्वितीयेन शहिः । अस्यापवादमाह । अथ चेदिति परतोऽशौचकालावधेः प्रातिलोम्येन पञ्चमीं रात्रिमतिक्रम्य यदि भवति पूर्वाशौच प्रथमाई प्रति यावत्तदा प्रथमेन शुद्धिरिति शङ्खवचनैकवाक्यत्वात् अन्यथा क्रमिकपरत्वस्यातौत्येत्यनेन लब्धत्वात् परत इत्यस्यानर्थक्यापत्तेः अघवृद्धिमत्त्वन्तु सपिण्डजननाशौचापेक्षया स्वपुत्रजननाशौचस्य सपिण्डमरणापेक्षया पितृमातृभर्नृमरणाशौचस्य च यतः स्वपुत्रजनने स्नानात् पूर्वमङ्कास्पृश्य त्वमन्यत्र न तथा । मातृपितृभर्त्तृणां महागुरुत्वात्तेषां मरणे द्वादशरात्रमक्षारलवणान्राशनं सपिण्डमरणे त्रिरात्रं यथा कूर्म - पुराणं 'सूतके तु सपिण्डानां संस्पर्शो नैव दुष्यति । सूतकं सूतिकाञ्चैव वर्जयित्वा मृणां पुनः । सूतकं पितरं नृणां
For Private and Personal Use Only
·