________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४.
शुधितत्वम्।
कर्मणा यथैकं फलं निष्पाद्यते तथा बाधकं विना फलान्तरमपि विनिगमकाभावात्। ज्योतिष्टोमादेस्तु यष्टिवर्षावच्छिन्नफलश्रुतेः पृथगनुष्ठानादेव पृथक्फलसिहिः अन्यथा षष्टिसंख्याद्यभिधानं व्यथं स्यात्। यत्र तु कर्मफले कालविशेषो नोक्तस्तत्रापि तत् कर्मसंपादकानुरूपेण कालविशेषो बोध्यः फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणत: फलविशेषः स्यादिति न्यायात्। तेषां कर्मणां लोकवत् कृष्यादिकवत्। तथाच मत्स्यपुराणे। 'पौरुषं दैवसम्पत्त्या काले फलति पार्थिव । त्रयमेतन्मनुष्याणां पिण्डितं स्यात् फला. वहम्। वषष्टिसमायोगाद् दृश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन' पौरुषं पुरुषसाध्य ऐहिकक्रियावन्दं दैवं सुखाद्युत्पादनोन्मुखीभूतादृष्टं पूर्व जन्मना कृतं तथाच याज्ञवल्काः । तत्र देवमभिव्यक्तं पौरुषं पूर्व. दैहिकम्'। अभिव्यक्त फलोन्मुखीभूतं काले तत्तत् काले तत्कार्यजननोन्मुखौभूते अतएव सनिबन्धुभिर्बाधकं विना एकस्मात् प्रायश्चित्तात् नानापापध्वंस इत्युक्तम्। तथा वषोत्सगंजलाशयोत्सर्गदुर्गापूजा तन्माहात्मापाठनन्दागङ्गामानादिषु एकशास्त्रोक्तमिलितफलवाचकपदयुक्तानि सङ्कल्पवाक्यान्युक्तानि तथाच भवदेवभट्टाः। 'एकस्मं वा कामायान्य यज्ञक्रतव आहियन्ते' इति संकौत्य सर्वेभ्यो दर्शपौर्णमासाविति प्रयोगभेदविधानाद् भवतु तत्र पृथगनुष्ठानसाध्यत्वं ब्रह्मबधप्रायश्चित्त तथाभूतं पृथगनुष्ठानमाध्यत्वप्रतिपादकवचनाभावात् अनेकफलानाञ्च तन्त्रण दशहरान्यायेन एककामनाविषयत्वसम्भवात् तन्त्रत्वमित्याहुः हरिनाथोपाध्यायास्तु वृषोत्सर्गफलान्युद्दिश्य एतानि च अर्थवादिकफलानि समुचितान्येव कामनाविषयः पुरुषविशेषणत्वस्य कल्पात्वात्
For Private and Personal Use Only