________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् । विषय कमिति सुमन्तुवचनच संग्रामहतभत सहगमनविषयकमपीति। न च अत्र योगसिद्दाधिकरणविरोधान्न समुच्चितफलसिद्धिरिति वाच्यम् । योगसिद्धयधिकरणे हि यः पुत्र कामो यः पशुकाम इत्यादिना यज्ञक्रतूनुपक्रम्य एकस्मै वा कामायान्ये यज्ञक्रतव आह्रियन्ते सर्वेभ्यो दर्शपौर्णमासावित्युक्तं तत्र तत्तद्दिधिवाक्येषु निरपेक्षफलश्रुतेः कामनाभेदान्न कक्यं ततश्च सर्वशब्देन प्रकृतवाचिना निरपेक्षाणामेव पुत्त्रादिफलानां दर्शपौर्णमासमबन्धेऽवगते प्रयोगभेदादेव भवतु तत्र तत्तत् फलसिद्धिः तथाच तदधिकरणसिद्धान्तसूत्रं योगसिद्धिर्वा अर्थस्योत्पत्त्ययोगित्वादिति । अस्यार्थः। वाशब्दः सिद्धान्तद्योत. नार्थः सर्वेभ्यो दर्शपौर्णमासावित्यवार्थस्य तत्तत्फलस्य योगेन प्रयोगभेदेन सिद्धिः उत्पत्त्ययोगित्वात् सर्व शब्दातुकर्षणीयानां यः पुत्रकामो यः पशुकाम इत्यादावुत्पत्तिवाक्ये फलानां युगपदसम्बन्धात्। न चार्थस्य नानाविधस्य उत्पत्त्ययोगित्वात् महे. न्द्रादितत्तलोकवासादीनाम् एकदोत्पत्त्य सम्भवादिति व्याख्यानं युक्तमिति वाच्यं तड़ागोत्सर्गादौ एक स्मात् कर्मण: क्रमिक नानाफलोक्तः। तथाच मत्स्यपुराणम्। 'एतान्महाराजविशेषधर्मान् करोति योामतिशुद्धबुद्धिः। स याति रुद्रा. लयमाशु पूत: कल्पाननेकान् दिवि मोदते च। अनेकलो. कान् ममहस्तपादौन् भुक्ता पराई दयमङ्गनाभिः। सहैव विष्णोः परमं पदं यत् प्राप्नोति तदयागबलेन भूयः' । तथेहापि सर्वनाम पदाभावादार्थवादिकफलानि समुच्चितान्येव कामनाविषयो लाघवात् प्रार्थवादिकममुच्चितनानाफलविषयकविधिरप्य क एव कल्पाते लाघवात् न हि निमित्तसाधारण्ये बाधकं विना नैमित्तिकानां पयायता मम्भवति वह्निसामीप्य दाहप्रकाशयोः पयायताया प्रदर्शनात् तस्मात् सकदनुष्ठितेन
For Private and Personal Use Only