________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
पिण्डदानपर्यन्तम्। 'यस्याग्निदाता प्रेतस्य पिण्डान् दद्यात् स एव हि' इति वायुपरागैकवाक्यत्वात्। ब्रह्मपुराणे 'श्राव. ये भर्तजायान्तु स्वभर्तकुलपामिमाम्। चितामारोपयन् प्राज्ञः प्रमृते धर्ममुत्तमम्। इमा: पतिव्रता: पुण्याः स्त्रियो याया: सुशोभनाः । मह भर्तशरीरेण संविशन्तु विभावसुम् । एवं श्रुत्वा ततो नारी श्रद्धाभक्तिसमन्विता। पिटमधेन यझेन दृष्ट्वा स्वर्गमवाप्नयात्' प्रमृते भत्तं रि इति शेषः पिटमेधेन यजेन चितारोहणरूपेण। पादुकाहय ग्रहणपूर्वकानुमरणेऽपि मह भर्तशरीरेणत्यनहः प्रयोज्यः। देशान्तरमृते पत्यावित्यादिना शरीरप्रतिनिधित्वेन तदीयद्रव्यविधानात् प्रति. निधौ च यथाश्रुतमन्त्रपाठमाह कात्यायनः। 'शब्दे विप्रतिपत्तिः' इत्येतहितमेकादशीतत्त्वे । न च 'अग्निजलप्रविष्टानां भृगुसंग्रामदेशान्तरमृतानां गर्भाणां जातदन्तानां मरणे विरात्रेण शुद्धिः' इति काश्यपवचनात् सह मृताया अप्यग्निप्रवेशेन त्रिरात्राशौचं तत्रैव तस्याः पिण्डदानमिति वाच्यम् । प्रागुन ब्रह्मपुराणे पृथचितिसमारोहणमात्रे पाहाशीच. विधानात् अन्यत्र भतं तुल्याशौचप्रतीते: सहमरणे काश्यपोक्ताविरात्राशौचाङ्गीकारेऽपि तस्याशौचस्य वृया पत्यशौचकालावधिस्थायित्वम्। 'अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनी। तावत् स्यादशुचिविप्रो यावत्तत् स्यादनिर्दशम्' इति मनताशौचसङ्कर पराशौचस्य पूर्वाशौच कालावधिस्थायित्वप्रतीतेः । ततश्च यथाशौचकालसङ्कोचे तन्मध्य एव सङ्कलय्य पिण्ड दानं तथाशौचकालबहावपि यावदशौचं यथाक्रम दश पिण्डा टेचा इति। अतएव जिकनीयान्त्येष्टिविध्यनुमरणविवेकयो
सः। 'संस्थितं पतिमालिङ्ग्य प्रविशेद या हुताशनम् । तस्याः पिण्डादिकं देयं क्रमशः पतिपिण्डवत्' । विष्णुः ।
For Private and Personal Use Only