SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । विष्णुः । 'मृते भर्तरि ब्रह्मचर्य तदन्वारोहणं वा' इति । ब्रह्मचर्य मैथुनवर्जनं ताम्बूलादिवर्जनच्च यथा प्रचेताः । 'ताम्ब लाभ्यजनश्चैव कांस्यपात्रे च भोजनम्। यतिव ब्रह्मचारी च विधवा च विवर्जयेत्'। अभ्यञ्जनमायुर्वेदोक्ता पारिभाभिकम्। यथा 'मूथि दत्तं यदा तैलं भवेत् सर्वाङ्गसङ्गतम्। स्रोतोभिस्तर्पयेहाहू अभ्यङ्गः स उदाहृतः। तैल. मल्प यदङ्गेषु न च स्याहाहुतर्पणम्। सामाष्टिः पृथगभ्यङ्गो मस्तकादौ प्रकीर्तितः'। स्मृतिः। 'एकाहारः सदा कार्यो न द्वितीयः कदाचन। पर्यशायिनी नारी विधवा पातयेत् पतिम् । गन्धद्रव्यस्य सम्भागो नैव कार्यस्त या पुनः । तर्पणं प्रत्यहं कार्य भतस्तिल कुशोदकैः। एतत्तु तर्पणं पुत्वपौवाद्यभावविषयमिति मदनपारिजातः । वैशाख कार्तिके माघे विशेषनियमचरेत् । स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः'। अत्र साध्वीमाह हारीतः। 'पार्ताः मुदिता हृष्ट प्रोषिते मलिना कशा। मृते म्रियेत या पत्यो साध्वी ज्ञेया पतिव्रता'। इति छन्दोगपरिशिष्टीयमिति कल्पतरुः'। साध्वीप्रसादन लोकधारणमप्याह मत्स्यपुराणम् । 'तस्मात् साध्वा स्त्रियः पूज्या: सततं देववज्जनैः। तासां राज्ञा प्रसादेन धार्यते च जगत्त्रयम्'। महाभारते। 'अव. मत्य च या: पूर्व पतिं दुष्टेन चेतसा। वर्तन्ते याश्च सततं भर्तृणां प्रतिकूलतः। भत्रनुमरणं काले या: कुर्वन्ति तथा विधाः। कामात् क्रोधात् भयान्मोहात् सर्वाः पूता भवन्तु ताः'। अत्र च ऐहिकब्रह्मघ्नपतेर्दाहनिषेधात् जन्मान्तरीयतत्पापवत एव सहमरणेनोद्धारः। ब्रह्म पुराणे। 'देशान्तरमृत पत्यो साध्वी तत्पादुकाइयम्। निधायोरसि संशद्धा प्रविशेजातवेदसम्। ऋग्वेदवादात् साध्वी स्त्री न भवेदात्म For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy