________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
... शहितत्त्वम्।
२३३
जीविप्रभृतयः । तथाच वृहस्पतिः। 'पिलव्यघाट पुत्र स्त्रीदासशिष्यानुजीविभिः। यद् होतं कुटुम्बार्थे तद् ग्रहो दातुमर्हति' कात्यायनः। कुटम्बार्थमशक्तेन ग्रहोतं व्याधितेन वा। उपप्लवनिमित्तञ्च विद्यादापत् कृतन्तु तत् । कन्यावैवाहिकञ्चैव प्रेतकाय च यत् कृतम्। एतत् सर्व प्रदातव्यं कुटुम्बेन कृतं प्रभोः'। प्रभोरिति कतरि षष्ठी तेन प्रभुणा दातव्यमिति रत्नाकरः। ब्रहस्पतिः। 'य: खामिना नियुक्तोऽपि धनायव्ययपालने । कुसौद कृषिवाणिज्ये निसृष्टाथस्तु स स्मृतः। प्रमाणं तत् कृतं सर्व लाभालाभव्ययोदयम् । स्वदेश वा विदेश वा स्वामी तन्त्र विसंवदेत् । इति श्रीरघुनन्दनभट्टाचार्यविरचितं स्मृतितत्त्वे
व्यवहारतत्त्वं समाप्तम् ।
शुदितत्त्वम् ।
nesen
प्रणम्य सच्चिदानन्दं जगतामौखरं हरिम्। शडितत्त्वानि लपोत्यै वक्ति श्रीरघुनन्दनः । सहानुगमनं नार्या योगसिद्धिनयस्तथा। नानाफलं तथैकस्मादाधादेकफलं कचित् । अशौचसङ्करो वृद्धिः स्वल्पस्य गुरुसकरात्। दिनदयनयाभ्याञ्च पूर्वाशौचसमापनम्। अशौचान्तदिने कृत्यं जननेऽपि च मुण्ड नम्। अन्याशौचस्य मध्ये तु जातकर्मादिकाः क्रियाः । गर्भस्रावे तथा शौचं स्त्रियां बालेऽथ सदगुणे। कलौ तत्प्रतिषेधश्व पक्षिणीलक्षणन्तथा। विदेशस्थस्य चाशोचं सपिण्डा. हेरशौचकम्। त्यागस्तत्र च सध्यादेरशचिग्राह्यनिर्णयः ।
For Private and Personal Use Only