________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३२
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम् ।
बालभीतादियोजितः । असम्बन्धकृतचैव व्यवहारो न सिहति । उपाधिकूलमिति शूलपाणिः । उपाधिर्भयादिरिति विज्ञानेश्वरः । तन्मते भौतादियोजित इत्यक्तवचनेन पौनरुक्तम | वहिर्ग्रामः वहिर्देशः । मत्तो मद्यादिना उन्मत्तो वातादिना व्यसनो द्यूताद्यासक्तः । असम्बन्धो वादिनियुक्त व्यतिरिक उदासीनः । श्रादिपादस्वतन्त्रदासपुत्त्रादेर्ग्रहणम् । तथाच नारदः । 'स्वतन्त्रोऽपि हि यत् कार्य्यं कुर्य्याच्चाप्रकृतिं गतः । तदप्यक्कृतमेवाहुरवातन्त्रस्य हेतुतः । कामक्रोधाभिभूता वा भयव्यसनपीड़िताः । रागद्वेषपरोताश्च ज्ञेयास्त्वप्रक्कतिं गताः । तथा दासकृतं कार्य्यमक्कतं परिचक्षते । अन्यत्र स्वामिसन्देहान दासः प्रभुरात्मनः । पुत्रेण च कृतं काय्यं यत् स्यादच्छन्दतः पितुः । तदप्यक्कृतमेवाहुर्दा सपुत्तौ च तौ समौ एतच्च कुटुम्बभरणातिरिक्तविषयं 'कुटुम्बार्थेऽभ्यधनोऽपि व्यवहारं यमाचरेत् । खदेशे वा विदेशे वा तं ज्यायान्त्र विचालयेत्' इति मनुवचनात् कुटुम्बमवश्यभरणीयम् । अभ्य धौनः परतन्त्रपुत्रदासादिः । व्यवहारमृणादिकं ज्यायान् खतन्त्रः न विचालयेत् अनुमन्येत । तथाच नारदः । 'स्वातन्त्रान्तु स्मृतं ज्येष्ठ े ज्यैष्ठ ं गुण वयः कृतम् । प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अखतन्त्राः
अस्वतन्त्रः स्मृतः शिष्य
श्राचाय्र्यस्य स्वतन्त्रता । स्वतन्त्राः स्त्रियः सर्वाः पुत्रादामा: परिग्रहाः । स्वतन्वस्तत्र तु गृहो यस्य तत् स्यात् क्रमागतम् । गर्भस्यैः सदृशो श्रेयः अष्टमादत्सरात् शिशुः । बाल आषोड़शादर्षात् पौगण्डोऽपि निगद्यते । परतो व्यक्हारतः स्वतन्त्रः पितरावृते । जीवतोर्न स्वतन्त्रः स्याज्जरयापि समन्वितः । तयोरपि पिता श्रेयान् वीजप्राधान्यदर्शनात् । भावे वीजिनो माता तदभावे च पूर्वजः । परिग्रहा अनु
For Private and Personal Use Only