________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
करणे प्रत्यवाय उक्तः । न च पोनरुत्यभिया तस्य निषेधकबमिति वाच्यम्। तथाल्वे एतद वन एव न भोक्तव्यमिति पुनरुपादानं व्यथं स्यात् किन्तु वोप्सया तस्यैव व्रतस्य नित्यत्वख्यापनमिति। अन्यथा निषेध: कालमात्रक इत्यनेनैव एकादशौक्षण एव भोजननिषेधः स्यात् । न खादेत् कूर्मशूकरावित्यस्य विशेषो बोध्यः । 'चक्राङ्कितस्तु यः कूर्मी रोहितः कनकप्रभः। वराहः खेतवर्णस्तु वयमेतन्न भक्षयेत्' इति समुद्रकरकृतकूर्मपुराणवचनात्। वाल्यावस्थायां चक्राकितत्वेन तदानों कूर्मस्याभक्ष्यत्वम्। अशनन्तीत्यनुहृत्ती हारोतः। महारण्य वासिनश्च वराहांस्तथेति। एवञ्च विवदन्ते अग्राम्यशूकरांश्चेति वशिष्ठोक्तं श्वेताश्वेतया व्यवस्थितम् । कल्पतरस्तु। श्राद्धे नियुक्तानियुक्ततयेति। विष्णू पासकस्य सर्वथा निषेधः। यथा वाराहे भगवद्वाक्यम् । 'भुत्ला बराच - मांसन्तु यस्तु मामुपसर्पति। वराहो दशवर्षाणि भूत्वा वै चरते वने। यदपि हरिवासरपदादहोरानाभोजनप्रतीतनिषेधः कालमात्रक इत्यनेनैकादशीक्षणमतिवाह्य भोजनमिति तदपि न किञ्चित् । यतो हरिवारपदाइरितिथे रेकादश्येव प्रतीयते। तथाच स्कन्दपुराणं 'प्रतिपत्प्रभृतयः प्रोक्ता उदयादोदयाद्रवेः। संपूर्णा इति विख्याता हरिवासरवर्जिताः'। भविष्योत्तरं 'हिताय मर्वलोकानां तिथिमेकादशी स्वयम्। निर्ममे खगरोरात्तु सेयं वै वैष्णवी तिथिः' । अथवा हरिवासरो द्वादश्या: प्रथमः पादस्तत्र पारणं न कुर्यात्। तथाच विष्णुधर्मोत्तरे। 'हादश्याः प्रथमः पादो हरिवासरसंजितः। तमतिक्रम्य कुर्वीत पारणं विष्णु तत्परः'।
अथैकादशीव्रतम्। नित्य काम्यञ्च गोविन्दमानसोल्लासकत्यमहार्णवयोभविष्योत्तरे। 'एकादशीव्रतं नाम नित्य वा
For Private and Personal Use Only