________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
नियताहारो मांसमैथुनवर्जितः। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि'। इति दशमीनियमपूर्वकं व्रतमभिधाय 'रटन्तीह पुराणानि भूयोभूयो वरानने। न भोक्तव्यं न भोक्तव्य सम्प्राप्ते हरिवासरे' इत्यादिविधेरनन्यगतिकतया निषेधकत्वमवश्य वायम्। तथाच निषिद्धे भोजने दोषश्रवणं निषेधातिक्रमजन्यतयैवोपपद्यमानं न फलश्रुत्या काम्यतया निरूढस्य व्रतस्य नित्यत्वे प्रमाणमिति तञ्चिन्त्यन खलु न शङ्खन पिवेत्तोयमित्याटिभिः प्रतिपन्ननिषेधभावैः साहचर्येण नैकादशीभोजननिषेधकमात्रमुत्तगई किन्तु 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि। वनस्थयतिधर्मोऽयं शुक्लामेव सदा रहो' इति गोभिलवचने धर्मशब्दममभिव्याहारेणैकादश्यामुपवमेदित्यनेनैकवाक्यतया चोषवामविधायकमपि न हि निषिडानां ब्रह्महत्यादीनां त्यागेन कश्चिद्धर्मो जायते किन्तु भावरूपाङ्गानुग्रहीतो निषिद्धो धर्मों भवेदिति वैधोपवासे च 'उपाहत्तस्य पापेभ्यो यश्च वामो गुणैः सह। उपवासः स विज्ञेयः सर्वभोगविवर्जितः'। इति भविष्यपुराणवचनेन भोगमावस्यैव वर्जने प्राप्त वचनान्तराटहोगत्रा भोजनस्यैव पापनिहत्तिगुणवामयुक्तस्य प्राधान्य. मन्यभोगवर्जनस्याङ्गत्वम्। तथाच 'सूतके मृतके चैव प्रणम्य मनसा हरिम्। एकादश्यां न भुनीत व्रतमेतद्धि वैष्णवम् । अत्र एकादश्यामुपवासमात्रस्य व्रतत्वमुक्तम एकादश्यां न भुजीतेत्यस्य व्रतपरत्वेन नाभोजनपरता तस्याय पूर्व दूषित. त्वात्। ततश्च यथा एकादश्यां न भुञ्जीत इत्यत्र वचनान्तरादुपवासरूपव्रतपरत्वं तथा न भोक्तव्यमित्यत्रापि। वस्तुतस्तु वराहपुराणे एकादशीव्रतसन्देशमध्ये न शङ्खन पिबेत्तोय. मिति न भोक्तव्यं न भोक्तव्यमिति वचनहयमभिधाय ब्रता
For Private and Personal Use Only