SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। स्पतिमिश्रोऽप्याह यथाकर्तव्यतया सङ्कल्पितं व्रतमिति । अमरसिंहोऽपि उपवासादौ व्रतशब्द सङ्केतमाह 'नियमी व्रत. मस्त्रीतचोपवासादिपुण्यकं तच्च व्रतमुपवासादिलक्षणं पुण्य के पुण्यजनकमित्यर्थः। अत्र च नियमशब्दः कर्मणि व्युत्पन्नः । यत्तु व्रतपदं नियतसङ्कल्पविशेषवाचकमिति प्रायश्चित्तविवेक कद्भिरता तदपि नियतः सङ्कल्पविशेषो यत्र हादशवार्षिकव्रतादौ तस्य वाचकमित्येतत्परम्। अन्यथा व्रतपदं मरमोऽपि मनुना प्रयुक्त यैव्रतैरपोहेतेत्य त्वा मरणस्यापि तेनोक्तत्वादिति व्रतपदं द्वादशवार्षिकादिपरमेवेत्याभ्यां स्ववाक्याभ्यां विरुद्धं स्यात्। न च नागृहौतविशेषणा बुद्दिर्विशेष्य उपजायत इति न्यायात् मङ्कल्पवाचित्वमिति वायं श्रीदत्तादीनां मतेऽपि स्वकर्तव्यविषयो नियतः मङ्गल्पो व्रतमिति लक्षणे खकर्त्तव्यविषयस्य तथाल्वात् विनिगमकन्तु प्रागुक्तवराहपुराणयाज्ञवल्कयादिवचनम्। एवञ्च मङ्कल्पविषयस्य अनन्तं पूजयेद्धरिमित्यादी भावत्वं नेक्षेतोद्यन्तमादित्यमित्यादी चाभावरूपत्वम् । ननु तर्हि व्रतस्य क्वचिदप्यभावरूपत्वाविषेधः कालमात्रके इत्यस्यैव विषयत्वं स्यादिति चेन तस्य केवलनिषेधविषयकत्वात् अस्य तु सङ्कल्पादीतिकर्तव्यतायोगित्वेन भावघटितत्वात् तत्र पूज्ये विधेत्तिरित्वस्यैव विषयत्वमिति । जौमूतवाहनेनापि एकादश्यां भोजन दोषं दर्शयनुपवास नियमयति। न चायं निषेध इतिकर्तव्यताविधानात् निषेधे चेतिकत व्यताविरहाव्रतपदाप्रयोगाच्चैत्यु क्तम् । यत्त निषेधप्रकरण स्थदेवलवचन। 'न शङ्खन पिबेत्तोयं न खादेत कूर्मशूकरी। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' इत्यत्र नबोनिषेधे मुख्यत्वाद्भोजनाभावः प्रतीयते न त्वभोजनसङ्कल्परूपं व्रतं लक्षणाप्रसङ्गात्। एकेनैव मत्स्यपुराणकता 'दशम्यां For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy