SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ एकादशीतत्त्वम्। विहिताः पुरा'। ओं तसदिति विविधो ब्रह्मणो जगदौश्वरस्य निर्देशोऽभिधानं ब्रह्मविद्भिश्चिन्तितम्। तत्र तापदोमिति ब्रह्मेत्यादि श्रुतिप्रसिद्धेः ओमिति ब्रह्मणो नाम। पातजलिरप्याह अस्यैव वाचकः प्रणव इति। अस्य ब्रह्मणः । ओंकारो भगवान् विष्णुरित्यादि तु वाच्यवाचकयोरभेदेन । तथाच जगत्कारणत्वेन प्रसिद्धत्वादविदूषां परोक्षत्वाच। तच्छब्दोऽपि ब्रह्मणो नाम। एवं परमार्थ सत्त्वसाधुत्वप्रशस्तवादिभिः सच्छब्दोऽपि। अतस्तेन त्रिविधनिर्देशन यहा यस्यायं त्रिविधी निर्देश स्तेन परमात्मना ब्राह्मणादयो निर्मिताः। तथाच 'तस्मात् ओमित्युदाहृत्य यज्ञदानतपःक्रिया:। प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनां यस्मादेवं ब्रह्मणो निर्देशस्त स्मात् ओमित्युदाहृत्य उच्चार्य कता वेदवादिनां यज्ञाद्याः शास्त्रोक्ता: क्रियाः मततमगावैकल्येऽपि प्रकर्षण वर्त्तन्ते सगुणा भवन्तीति भगवच्छङ्कराचार्यचरणाः। व्यक्त माह योगियाज्ञवल्काः। 'यन्यनञ्चातिरिक्तञ्च यच्छिद्र यदयज्ञियम्। यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् । तदो. कारप्रयुक्तोन सर्वञ्चाविकलं भवेत् । भगवहौतायाम् । 'तदित्यनभिसन्धाय यन्नदानतपःक्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकादिभिः'। तदिति ब्रह्मणाभिधानमुदाहृत्ो. त्यनुषङ्गः अनभिसन्धाय कर्मणः फलमिति शेषः। तस्मात् फलाभिसन्धानं विना मुमुक्षुणा कर्म कर्त्तव्यमित्यपि बोध्यम् । 'सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते। प्रशस्त कर्मणि तथा सच्छब्दः पार्थ युज्यते। यतो विद्यमानजन्मनि उत्कृष्टचरिते च सदित्येतत् प्रयुज्यते । अतो यन्नादौ कर्मणि प्रथमतः सच्छब्दः प्रयुज्यत इति। तेनैतादृशेतिकर्तव्यताकः सङ्कल्प विषयो व्रतमिति तलक्षणम् । सङ्कल्पविषयस्य व्रतत्व वाच: For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy