SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । काम्यमेव वा । कथं वा क्रियते तत्तु नियमो वात्र कीदृशः । इत्यादि युधिष्ठिरप्रश्नमभिधाय 'अहं ते कथयिष्यामि शृणु पाण्डुकुलोद्भव। नित्यमेतद्व्रतं नाम कर्त्तव्य' सार्ववर्णिकम् । वाञ्छद्भिः सर्वदा सद्भिः पुरुषार्थचतुष्टयम् । न भोक्तव्यं न भोक्तव्य' सम्प्राप्ते हरिवासरे' इति श्रीकृष्णवचनमभिहितम् । अत्र नित्यमिति श्रवणात् नित्यत्वं पुरुषार्थचतुष्टयमिति श्रव णात् काम्यत्वञ्च । कालमाधवीये ब्रह्मवैवर्त्तः । ' इति विज्ञाय ''कुर्वीतावश्यमेकादशी व्रतम् । विशेषनियमाशक्तोऽहोरात्रं भुक्तिवर्जितः । निग्टहोतेन्द्रियः शुद्धोऽसहायो विष्णुतत्परः । उपो कादशी पापान्मुच्यते नात्र संशयः । इदं तु नित्यम् अतएव 'जह्याद्भक्तइयं नित्ये काम्ये भक्तचतुष्टयम्' इत्युक्तम् । एतच्च नित्ये भक्तदयवजनशक्तावश्यकत्वार्थं नित्यं किञ्चिदङ्गहानावपि सिद्धिरिति न्यायात् काम्ये तु सर्वशक्त्यधिकरणन्यायात् सर्वाझोपेतस्यैव सम्पूर्ण फलत्वेन भक्तचतुष्टयवर्जनमभिहितम् । शक्तौ तु कात्यायनः । ' शक्तिमांस्तु नरः कुर्य्यान्नियमं सविशेषणम्' । कृत्यकल्पलतायां भविष्यपुराणम् । युधिष्ठिर उवाच । 'एकादशीव्रतं देव नित्य वा काम्यभेव वा । तन्मे कथय गोविन्द श्रोतु कौतुहलं भम' । श्रीभगवानुवाच । 'नित्यमेतदव्रतं नाम कत्र्त्तव्य सार्ववर्णिकम् । सर्वाश्रमाणां सामान्यं सर्वधर्मेष्वनुत्तमम् । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' एवञ्चैकादशीव्रतस्य नित्यत्वेऽपि शक्लेन तदङ्गतया संयमपारणनियमोऽवश्य मनुष्ठेयः । शातातपवचना अथ वृद्धिश्रादविषयः । ननु व्रतस्य वैदिकत्वेन 'नानिष्ठा तु पितृन् श्राद्धेः कर्मवैदिकमारभेत्' इति । दारम्भे कथं न वृद्धिश्राद्धम् । उच्चते । नेदं श्राद्ध विधायक गौरवात् किन्तु यत्र कर्मणि वचनान्तरप्राप्त श्राद्धं तत्र पौर्वा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy