________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्वम् ।
ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रतिपादकं स एव जयी अन्यथा पराजित इति प्रत्येतव्यम्। स्वयमभ्युपपत्रः प्रात्मनैवाङ्गौ कतस्वपराजयः स्वच-वसित: कम्पखेदवैवादिना पराजितत्वेनावतः क्रियावसन्नः साक्ष्यादिना प्राप्तपरा. जयः परमनन्तरं सभ्यावधारण महत सभासदां मिथिलानामयं पराजित इति। निर्णयमहेंत आकाङ्केत स शास्त्रविधिना शास्यः । निणयस्य फलमाह वृहस्पतिः । 'प्रतिज्ञाभावनाहादी प्राविवाकादिपूजनात्। जयपत्रस्य चादानात् जयो लोके निगद्यते'। जयपत्रस्य लिखनप्रकारमाह स एव। 'यवृत्तं व्यवहारेषु पूर्वपक्षोत्तरादिकम्। क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत्। पूर्वेणोक्तक्रियायुक्त निर्णयान्तं यदा नृपः । प्रदद्याज्जयिने पत्नं जयपत्र तदुच्यते'। कात्यायनः । 'अर्थिप्रत्यर्थिवाक्यानि प्रतिसाक्षिवचस्तथा। निर्णयश्च तथा तस्य यथा चारवृतं स्वयम् । एतद् यथाक्षरं लेख्यं यथापूर्वं निवेशयेत् । सभासदश्च ये तत्र धर्मशास्त्रविदस्तथा। ततश्च भाषोत्तरे क्रिया च यत्र साक्ष्यादिकं निर्णयो जयपराजयावधारणं निर्णयकालावस्थितमध्यस्थाश्वेत्यादिकं सवं लेखनौयं निरूपणस्य सम्यक्त्व प्रदर्शनार्थ तथाहि भाषोत्तरलिखनं हेत्वन्तरेण पुनन्यायप्रत्यवस्थाननिषेधार्थ न हि न स्टहौतमिति मिथ्योत्तरेगा पराजितस्य पुनः परिशोधितं मयेति प्रत्यवस्थानं सम्भवति । प्रमाणलिननन्तु पुनः प्रमाणान्तरेण न्यायनिषे. धार्थम्। सदाह कात्यायनः। “क्रियां बलवतीं त्यक्त्वा दुर्वलात् योऽवलम्बते। न जयेऽवते सभ्यः पुनस्तां नाप्नयात् क्रियाम्। निर्णीत व्यवहारे तु प्रमाणमफलं भवेत्। लिखितं माक्षिणो वापि पूर्वमावेदितं न चेत्। यथा पक्केषु धान्येषु नियालाः प्रावृषो गुणाः । निर्णीतव्यवहाराणां प्रमाणम
For Private and Personal Use Only