SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२८ Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । कुय्यात् इत्यभिप्राय वर्णनं युक्तं तस्यामहाभियोगविषयकत्वेन शपथसमभिव्याहारानर्हत्वात् । सुकृतादिभिरित्यादिना दुर्वा सत्याभ्युपग्रहः । तथाच विष्णुः | 'सर्वेष्वेवार्थजातेषु मूल्यं कनकं प्रकल्पयेत् । तत्र कृष्णलाने शूद्रं दुर्वाकरं शापयेत् । दिकृष्णलोने तिलकरं त्रिकृष्णलाने जलकरं चतुः कृष्णलोने स्वर्णकरं पञ्चकृष्णलोने सोतोद्धृतमहौकरं सुवर्णानि कोशो देयः शूद्रस्य यथासमये विहिता क्रिया तथा द्विगुणेऽर्थे राजन्यस्य त्रिगुणेऽर्थ वैश्यस्य चतुर्गुणेऽर्थे ब्राह्मणस्येति' । कृष्णलः काञ्चनरत्तिका तन्मल्याने कृष्णलोन एवमन्यच । मनुः । 'सत्येन शापवेचित्र क्षत्रियं वाहनायुधैः । गांवीजकाञ्चनेवैश्यं शूद्रं सर्वस्तु पातकैः । पुत्रदारस्य वाप्येवं शिरांसि स्पर्शयेत् पृथक् । ब्राह्मणेन मयैतत् कृतं न कृतं वेति प्रतिज्ञामुच्चार्य सत्यमिति वक्तव्यम् । तथैव चत्रियेण वाहनायुधं स्प्रष्टव्यं तथैव वैश्येन गोवीजकाञ्चनानामन्यतमं स्पष्टव्यं शूद्रेण तु पूर्वोक्तं सर्वमेव स्प्रष्टव्यं तेषां वृथाकृतस्पर्शानां पातक हेतुत्वात् पातकशब्देन निर्देशः । हलायुधोऽप्येवम् । दैवक्रियाविषयमाह नारदः । ' अरण्ये निर्जने राचावन्तर्वेश्मनि साहमे । न्यासापहरणे चैव दिव्या सम्भवति क्रिया । वृहस्पतिः । 'देवब्राह्मणपादांश्च पुत्रदारशिगंसि च । एतं तु शपथाः प्रोक्ता मनुना स्वल्पकारणे । साहसेष्वभिशाप च दिव्यानि तु विशोधनम् । अत्र शपथदिव्ययोः पृथकत्वप्रतीतेः। शपथेन दिव्यधर्माः किन्तु वैधे कर्मणि तव भोचार्थ स्नानाचमनादिमात्र कार्य्यम् । दिव्यानि तु दिव्यतत्त्वं कथितानि नात्र लिखि तानि । अत्राभियुक्तेन शपथः कर्त्तव्य इत्यर्थः । उभवेच्छ. याभियोक्तापीत्याह नारदः । 'अभियोक्ता शिरोवर्त्ती सर्वत्रैव प्रकीर्त्तितः । इच्छयान्यतरः कुय्यादितरो वत्र्त्तयेच्छिरः' । इतरः For Private and Personal Use Only ·
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy