________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
व्यवहारतत्त्वम् ।
आगमः' । एतदचनमसमक्ष भोगविषयकमिति समक्षविषति. वर्षाभोगविषयकवचनेनाविरोधः । एतादृक् स्मृत्युक्तकाल एव । कात्यायनः । 'स्मार्त्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मा त्वागमाभावात् क्रमात्रिपुरुषागता' । षष्टिवर्षेकपुरुषभुक्तो विपुरुषभुक्तिव्यपदेशस्य फलमाह म तवेत्यादि । अतएव नारदः । 'अन्यायेन तु यद्भुक्तं पित्रा पूर्वतनैस्त्रिभिः । न तत् कामपाकर्त्तुं क्रमाचिपुरुषागतम्' । अन्यायेनेत्यवा नागममिति शूलपाणिष्टतपाठः । तुरप्यर्थः पित्रा मह पितरमादाय त्रिभिरित्यर्थः । यत्त् 'अनागमस्तु यो भुङ्क्ते बह न्यब्दशतानि च । चौग्दण्डेन तं पापं दण्डयेत् पृथिवोपतिः । इति तस्य वचनं दण्ड़विधायकं न तन्मुख्यार्थपरं धर्मशास्त्रविरोधात् तदाह स एव । 'यत्र विप्रतिपत्तिः ः स्यात् धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रार्थमुत्सृज्य धर्मशास्त्रार्थ - माचरेत्' । एवमेव शूलपाण्युपाध्यायाः । वस्तुतस्तु अनागममिति दण्ड विधायक वचनं स्त्रोधननृपधनपरम् । 'स्त्रोधनञ्च नृपेन्द्राणां न कदाचन जीर्यति 1 श्रनागमं भुज्यमानमपि वर्षशतैरपि' इति स्वत्वनिषेधकवचनान्तरेकवाक्यत्वात् । यत्र विप्रतिपत्तिः स्यादिति वचनस्याप्येतदुदाहरणम् । यत्रैकस्य जयेऽवधार्यमाणे मित्रलम्बिरपरस्य जयेऽवधाय्यमाणे धर्मलब्धिस्तत्र । 'हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरायतः । श्रतो यतेत तत्प्राप्ताविति वेदविदां मतम्' इति । याज्ञवल्कयोक्तार्थ शास्त्रार्थमुत्सृज्य क्रोधलोभविवर्जित इति । धर्मशास्त्रार्थमवलम्बा व्यवहारं पश्येत् श्रतएव 'सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । इति कात्यायनोक्त भवदेवभट्टास्तु व्यासवचनं प्रतिवादिनोऽसन्निधाने पुरुषैकद्वय भोगाभिप्रायम् । पुरुषभोगस्य तचैव प्रमाणत्वादित्याहुः ।
For Private and Personal Use Only
-