________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
व्यवहारतत्त्वम् ।
'समूहो वणिगादीनां पूगः स परिकीर्तितः' इति कात्यायनवचनोक्तः श्रादिशब्दात् विजातीयलाभः तेन ग्रामनगरादि श्रेणी तु सजातीय समूहः ताम्बूलिक कुविन्दकर्म कारकादिः गण एकक्रियार्थोद्यतः लेख्यस्य च अप्रामाख्यशङ्कायां लेख्यग्राहिणां प्रागुक्तशोधनप्रकारेण तनिरसनौयं तत्पुत्रेण तु लेख्याधीनो भोग एव उपन्यासो न तु लेख्य मुद्दरणीयम् । तदाह कात्यायनः । 'हर्त्ता भुक्तियुक्तोऽपि लेख्यदोषान् विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात्' । वृहस्पतिः। उद्धरल्ल ेख्यमाहर्त्ता तलुतो भुक्तिमेव हि । अभि युक्तः प्रसोतश्चेत् तत्सुतोऽपि तदुद्धरेत्' । अभियुक्त इति लेख्यस्व साधुत्वज्ञापनार्थम् अभियुक्त लेख्यग्रहतरि तदविज्ञाप्यैव मृते तत् पुत्रेण साधुत्वं साध्यमित्यर्थः । तत् साधनञ्च स्वहस्तलिखनादिनेति प्रागुक्तम् ।
अथ भुक्तिः । तत्र याज्ञवल्काः । 'पश्यतो ब्रुवतो हानिभूविंशतिवार्षिकी। परेण भुज्यमानाया धनस्य दशवार्षिकी' । विवादम कुर्वतः समक्षं भूस्वामिनः परेणासपिण्डादिना भुज्यमानाया भूमेर्विंशतिवर्षनिर्वृत्ता स्वत्वहानिः अत्र लोकव्यवहार कर्मत्वाद्दर्षगणना सावनेन । तथाच विष्णुधर्मोत्तरम् । 'सत्रान्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्यात् व्यवहारकर्म' । तत्रैव । 'सा वने च तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः' इति । विशेषयति व्यासः । 'वर्षाणि विंशतिर्यस्य भूर्भुक्ता तु परैरिह । सति रामि समर्थस्य तस्य सेह न सिध्यति' । समर्थस्य बालत्वादिदोषरहितस्य । धनस्य दशवर्षनिर्वृत्ता स्वत्वहानिः । तथाच मनुनारदौ । 'यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनौ । भुज्यमानं परेस्तूष्णीं न स तल्लब्ध ुमर्हति' । यत्किञ्चित् धनजातं समचमेव
For Private and Personal Use Only