SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० व्यवहारतत्त्वम् । सन्देहे जीवतो वा मृतस्य च। तत्वहस्तकृतैरन्यैः पत्रस्तल्लेख्यनिर्णयः। तथा 'समवेतैश्च यदृष्टं वक्तव्यं तत्तथैव च । विभिन्नेनैव काय तु तहक्तव्यं पृथक् पृथक् । नापृष्टैरनियुक्तर्वा समं सत्यं प्रयत्नतः। वक्तव्यं साक्षिभिः साक्ष्य विवादस्थानमागतः। अनुहिग्नेन चित्तेन दुष्ट' सम्यग्विदा तु यत् । प्रत्यक्षं तत्स्मृतं कार्य साक्ष्य साक्षी तु तहदेत्'। नारदः । 'यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः। आत्मार्थे किं न कुर्यात् स पापो नरकनिर्भयः। अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः। यस्तु तां स्ते नयेहाचं स सर्वस्ते य. कन्नरः' बौधायनः। 'पञ्च पश्वनृते हन्ति दश हन्ति गवा. नृते । शतमखानृते हन्ति सहस्र पुरुषानृते। हन्ति जातान. जातांश्च हिरण्यार्थे ऽनृतं वदन्। सर्व भूम्यनृते हन्ति साक्ष्ये साक्षी मृषा वदन्'। वृहस्पतिः। 'यस्य शेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम्। स जयो स्यादन्यथा तु साध्याथं न समाप्नुयात्'। याज्ञवल्काः। 'उक्तोऽपि साक्षिभिः साक्ष्य यद्यन्ये गुणवत्तराः। द्विगुणावान्यथा श्रूयः कूटाः स्युः पूर्व साक्षिणः'। अन्यथा पूर्वविपरीतार्थप्रकारेत कूटा अनादेय. वचनाः। तथा। 'य: साक्ष्य' पावितोऽन्येभ्यो निहते तमसावृतः। स दाप्योऽष्टगुण दण्डं ब्राह्मणश्च विवासयेत्' । त्वमन्ये भ्यः माक्ष्य श्रावयेति वादिना प्रयुक्तो यः श्रावितः कारितहयात् पदसिद्धिः एवम्भतोऽपि सभायां निगदकाले साक्ष्य' निहते यस्तस्याष्टगुणो दण्डः । अथ लिखितम्। तत्र वृहस्पतिः। 'पाण्माषिकेऽपि समये भ्रान्तिः संजायते यतः। धावाक्षराणि सृष्टानि पत्रारूढ़ा. न्यत: पुरा'। नारदः। 'लेख्यं तु विविधं प्रोक्तं स्वहस्तान्य. सतं तथा। असाक्षिकं साक्षिमञ्च सिद्धिर्देशस्थितेस्तयोः । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy