________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्वम् ।
दाप्यः सर्वाबृपेणार्थान ग्राह्यस्त्वनिवेदितः'। यो लिखितानेक सुवर्णादिकम् अपलपति स एकद्रव्ये साक्ष्यादिभिविभा. वित: सन् सर्वान् दद्यात् । यद्ये कदेशविभावनेन वादिनोऽवसादमवगम्य इदमपरं मया लेखयितु विस्मृतमिति ब्रूते स ती भाषाकाले अनुपन्यस्त न दद्यादेतच न केवलं वाच. निकं किन्तु एकदेशविभावनादिजानत एवास्य तदपलापे दुःशीलत्वावधारणादपरांशेऽपि तथात्वमेव सम्भाव्यते सत्यविभावकस्यापि प्रक्रान्तविषये यथा वस्तुवादावधारणादविभावितांशेऽपि सत्यवादित्वसम्भावनमित्येवंरूपतक परम्परासम्भावनाप्रत्ययानुग्रहीतास्मादेव योगोखरवचनात् सर्व दापनौयमिति निर्णयः। एवञ्च तकवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदर्शिनां न दोषः। तथाच गौतमेनापि न्यायाधिगमे तर्कोऽभ्यु पायः तेनापि संग्रह्य यथास्थानं गमयेदित्यु त्वा तस्माद्राजाचार्यावनिन्द्यावित्युपसंहृतम् । एवञ्चास्य न्यायस्य वादिहयसाधारणत्वादुभयविषयत्व वचनानाम्। अतएव कात्यायनः। 'यो कदेशप्राप्तापि क्रिया विद्येत मानुषी। सा ग्राह्या न तु पूर्णापि दैविको वदतां नृणाम्'। वदतां विवदतामित्यविशेषेण दर्शयति पूर्णापि दैविको समग्रविषयिकापि न ग्राह्या तेनैकदेशप्रतिपादिकया मानुष्या क्रियया समस्तसाध्यसिद्धिरिति। न च यद्येषां मध्ये एकमपि मया ग्टहीतं विभावयसि तदा सर्वमेव दातव्यम् इति प्रतिज्ञाविषयकत्वमेकदेशविभावितत्वं वचनस्येति जोम्लोकमतानुसारिमैथिलमतं युक्तमिति वायं प्रतिज्ञा. विषयत्वे अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना विभावितकदेशेन देयं यदभियुज्यते इत्यमर्यकं प्रौढ़िवादेनाभियुज्यमाना. दधिकस्यापि प्रतिज्ञातस्य दानावश्यकलात् न ग्राह्यस्त्व
For Private and Personal Use Only