________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
व्यवहारतत्त्वम्।
मदुष्टम् अतो भिन्त्रमन्यथा सङ्कीर्ण दुष्टमित्यर्थः । अत्र च प्रव. च्छेदभेदेन मिथ्योत्तरसङ्करे सदुत्तरत्वमेकावच्छेदेन। सकर तु असदुत्तरत्वमाह कात्यायनः । ‘पवैकदेशे यत् सत्यमेकदेशे च कारणम्। मिथ्या चैवैकदेशे स्यात् सकरात्तदनुत्तरम्' । एकदेशे इत्यत्र एकस्मिन्नेव देशे न भिवदेशे यथा शतं धारयाम्येव परिशोधितं न होतं वा इति ।
अथ क्रियापादः। उत्तराभिधानानन्तरं याज्ञवल्करः । 'ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधकम्'। अर्थी वादी प्रतिवादी च स्वपक्षार्थित्वात्। तयोरधिकारी नियममाह व्यासः । 'माइन्याये कारणोती च प्रत्यर्थी साधयेत् क्रियाम् । मिथ्योत्तरे पूर्ववादी प्रतिपत्तौ न सा भवेत्। मिथ्योत्तरे न एहोतं मयेत्यादिरूपे पूर्ववादी भाषावादी साक्ष्यादिकं निर्दिशेनोत्तरवादी तब तस्य मानुष्या: क्रियाया असम्भवादिति न्यायो मूलम् अत्रापि साक्ष्याद्यभावे उत्तरवादिन एक दिव्यम्। 'न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत्। अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदे.'। इति कात्यायनोतः । अत्र पूर्वार्द्ध नार्थिनो दिव्यनिषेधेऽर्थात् प्रत्यर्थिनस्तत्प्राप्तौ पराहीभिधानं सिहे सत्यारम्भो नियमाय इति न्यायाब्रियमार्थ न च व्यासवचने क्रियापदं कारणोत्तरमानुषीदेवीपरमित्ये. तावदर्थकं मिथ्योत्तरेऽप्यनुयुज्यते इति तत्रापि अर्थिन एवं दिव्यमिति वाच्यं श्रूयमाणपदस्य हि पुनरन्वयार्थमेवानुषतः । ननु अर्थवैषम्य सहितस्य गौरवात् पूर्वोक्तन्यायमूलकविषयलब्धौ कात्यायनोतदिराविषयनियमभङ्गानहत्वाञ्च यत्र विवादविषये प्रत्यर्थी सन्दिहानस्तत्र तस्योत्तरानहतया अर्थिन एव दृष्टक्रिया तदसम्भवे तस्यैव दिव्यं न तु प्रत्यर्थिन: अधि. कारनिश्चयाभावात् अर्थिनस्तत् सत्वात् न च न कश्चिदभिः
For Private and Personal Use Only