________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम् ।
योतारमित्यादिना विरोधस्तस्योत्तराहप्रतियोगिविषयत्वात् एतहिषय एव धनस्वामिनो दिव्यमिति लोकप्रवादः । लिखि. ताद्यभावेनापि दिव्यमाह याज्ञवल्करः। 'प्रमाणं लिखित भुक्ति: साक्षिणति कोर्तितम्। एषामन्य तमाभावे दिव्या. न्यतममुच्यते'। अथ दिव्यम्। दिव्यान्याह स एव । 'तुला. ग्न्यापो विष कोषो दिव्यानोह विशुद्धये। महाभियोगेष्वे. तानि शौर्षकस्थेऽभियोक्तरि। रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । विनापि शौर्षकं कुर्यात् नृपद्रोहेऽथ पातके' । महाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षक स्थः शीर्षकं प्रधानं व्यवहारस्य चतुर्थपापो जयपराजयलक्षणः तेन दण्डो लक्ष्यते। तत्र तिष्ठति वर्त्तते तदङ्गीकरोतीत्यर्थः । प्रत्नाभियोक्नुः शरोवर्तित्वोक्तोरभियोज्यस्य दिव्यकर्तत्वं प्रती. यते। प्रत्यर्थीच्छया अर्थिनो दिव्यमाह रुथति इतरोऽभियुक्तः एतत् सर्वं दिव्यतत्त्वे विकृतम् । प्रतिज्ञातार्थसाधकमिति साधक साक्ष्यादिकम् । तदाह वृहस्पतिः। 'हिप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा। साक्षिलेख्यानुमानञ्च मानुषी त्रिविधा स्मृता । धटाद्याधर्मजान्ता च दैविको नवधा स्मृता' । तत्रानुमानन्तु भुक्त्यादि। तत्र साक्ष्यमाह मनुः । 'समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति । एतत् प्रमाणमात्रोपलक्षणम् । 'अनुभावो च यः कश्चित् कुर्यात् साक्ष्य विवादिनाम्' इति तहचनान्तरात् । अतएव प्रकृतमपि साक्षिणमाह मनुः । 'यत्नानिरुद्दो वौक्ष्येत शृणुयादापि किञ्चन । पृष्टस्त वापि तब्रूयात् यथादृष्टं यथाश्रुतम्। अनिरुद्धस्त्वमत्र साक्षि. खेनानियुक्तः। परम्परयापि श्रवणमाह विष्णुः। 'उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा। तदभिहितश्रोतारः प्रमाणं नात्र संशयः । अस्योत्तरसंन्नामाह नारदः । साक्षिणा:
For Private and Personal Use Only