________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम् ।
२०८
व्यवहारेण अवसनो भनी लेखयते भाषामिति शेषः। स वादी अस्मिवर्थे मया पूर्व पराजितः वाच्यः प्राङ्न्यायो हि धार्यमाणत्वसामान्याभावज्ञापकः। एतेषां सङ्करे विशेषमाहतुर्थासहारौती। 'मिथ्योत्तरं कारणच स्यातामेकत्र चेदुभे। सत्यञ्चापि सहानेन तत्र ग्राह्य किमुत्तरम् । मिथ्या. कारण योर्वापि ग्राह्य कारणमुत्तरम्। यत् प्रभूतार्थविषयं न्यत्र वा स्यात् क्रियाफलम्। उत्तरं तत्तु विज्ञेयमसंकीर्णमतोऽन्यथा'। शताभियोगे शतग्रहणं मिथ्यापञ्चाशदेव रहौतास्ताच परिशुद्धा इति मिथ्याकारणांशयोस्तुल्यरूपले कारणोत्तरं ग्राह्यम् आदौ विचारणीयं परिशोधनस्यार्वाचौनत्वेन स्मरणाहत्वात् पश्चान्मिथ्योत्तरं तत्र ऋणस्य चिराती. तस्य कष्ट प्रतिपाद्यत्वात् एवञ्च नवत्यभियोगे मिथ्यैतत् षष्टि. पुराणा एव मया गृहीतास्तत्रापि त्रिंशत् परिशुद्धा स्त्रिंशद्वारयामि इति मिथ्याकारणसत्यैः सङ्कीर्णोत्तरेऽपि पूर्ववत्कारणोत्तरमेव ग्राह्य मिथ्याकारणयोर्वापोति वापिशब्दाभ्यां तथा दर्शितत्वात् सत्योत्तरस्य स्वयं स्वौकतत्वेन निर्णयानईत्वादिति भावः । प्राङ्न्यायेन सह सर्वथैव सङ्करानुपपत्तिरिति तन्त्रोक्तं यदि शतं मिथ्या पञ्चविंशतिपुराणा गृहीतास्ते च परिशुद्धास्तथा मिथ्यांशस्य प्रचुरार्थविषयस्य विचार उपकमणीयः। भूयोऽनुरोधस्याभ्यहितत्वात् पश्चात् स्वल्यार्थस्य विचार इति। तुल्यार्थविषयत्वे तु यत्र क्रियायाः साक्ष्यादेः फलं निर्णयः शीघ्र भवति तदंशस्यैव प्रमाणं ग्राह्य तथा यदि शतग्रहणे पवमस्ति शतापनवे च पञ्चाशत्परिशोधने साक्षिणस्तदा मिथ्योत्तर एवादी तत्खण्ड नाय ग्रहणपत्न ग्राह्यं लिखितस्य साक्षिभ्यो बलवत्त्वेन सम्यनिर्णयकारित्वात् पथात् परिशोधनसाक्षिण: प्रष्टव्याः। सङ्करोत्तरमप्यसजीर्ण
For Private and Personal Use Only