________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
व्यवहारतत्त्वम्।
तदुत्तरं प्रत्यवस्कन्दनं वाद्युक्तस्य प्रतिकूलत्वेन प्रत्यवस्कन्दन. मित्यर्थः । प्रतिपक्षावस्कन्दनात् प्रत्यवस्कन्दनमिति जोमूतवाहनः। तच कारणोत्तरं त्रिविधं बलवत्तुल्यबलं दुर्बलञ्च तत्र बलवदुत्तरं यथा त्वत्तः शतं ग्टहीतमिति सत्यं किन्तु परिशोधितमिति पत्रोत्तरवादिन एव क्रियानिर्देशः। तथाच नारदः। 'पाधयं पूर्वपक्षस्य यस्मिवर्थवशाद्भवेत्। विवादे माक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः'। आधयं दुर्बलत्वं पूर्वपक्षस्य। ततश्च स्थापकसाध्यस्य धार्य माणत्वस्य ध्वंसकारणं नियातनादि तद्रूपमुत्तरं कारणोत्तरम्। अतएव मिथ्योत्तरादस्य भेदः तहि धार्यमाणत्वस्यात्यन्ताभावप्रयोजकमग्रहणरूपं न तु ध्वंसरूपं तुल्यबलकारणोत्तरं यथा मदी. येयं भूमिः । क्रमागतत्वादिति वाद्युक्त मदीयेयं भूमिः क्रमागतत्वादिति प्रतिवादिना तथोत्तरमिति तत्र पूर्ववादिनः साक्ष्युपन्यासः । तदसामर्थ्य प्रतिवादिनः। तथाच याजवल्काः । 'साक्षिषूभयत: सत्स साक्षिण: पूर्ववादिनः । पूर्व पक्षेऽधरीभूते भवन्त्युत्तरवादिनः'। दुर्बलकारणोत्तरं यथा ममेयं भूः क्रमागतत्वादिति वाद्युक्ते ममेयं भूर्दशवर्षभुज्यमान. त्वादिति प्रत्युत्तरं तत्तु धनमात्र प्रयुक्तम् । पश्यतोऽब्रूवतो हानिर्धनस्य दशवार्षिको' इति। यान्नवल्कोयं वीजं किन्तु नैतद्युक्तम्। 'परेण भुज्यमानाया भूमविशतिवार्षिकी' इति भूमिमात्रविषयकं तत्पराडेंनापादितत्वादिति भवदेवभट्टः । 'पश्यतोऽब्रूवतोहानि मेविंशतिवार्षिकी। परेण भूज्यमा. नाया धनस्य दशवार्षिको' इति शूलपाणितपाठोऽपि तवाथै प्रमाणं ततश्चात्र क्रमागतत्वे पूर्ववादिन: प्रमाणोपन्यासः । तथाचोक्तम्। 'गुरावभिहिते हेतौ प्रतिवादिक्रिया भवेत् । दुर्बले वादिनः प्रोक्ता क्रिया तुल्येऽपि वादिनः' आचारेण
For Private and Personal Use Only