SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ व्यवहारतत्त्वम् । क्रियाहेषी नोपस्थायी निरुत्तरः। आइतः प्रपलायो च होनः पञ्चविधः स्मृतः। प्रपलायो त्रिपक्षेण मौन वत्सप्तभि. दिनैः। क्रियाहेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात्' इति नारदोतः क्रिया लेख्यादिका साक्षिभिन्नः साक्षिभिः पराजितः । वादिनोक्तस्य साध्यस्थ प्रतीतं वदतीति प्रतिवादी उत्तीर्यते निस्तीर्यते प्रताभियोगोऽनेनेति उत्तरम् । याजवल्काः । 'श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ'। लेख्यमिति वाक्यस्याम्यपलक्षकम् । उत्तरखरूपं तद्भेदांश्वाह नारदः। 'पक्षस्थ व्यापकं मारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं तहिदो विदुः। मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा। प्रान्यायाश्चोत्तरा: प्रोताचत्वारः शास्त्र. वेदिभिः । अभियुक्तोऽभियोगस्य यदि कुादपङ्गवम् । मिथ्या तत्तु विजानौयादुत्तरं व्यवहारतः'। पक्षस्य भाषार्थस्य व्यापकः आच्छादकम् अभियोगप्रतिकूलमिति यावत्। अतएव पूर्वपक्षार्थसम्बन्ध प्रतिपक्षं निवेदयेदित्युक्तम्। न च विप्रतिपत्त्या न्चायोऽर्थमागतस्य धारयमीत्यभियुक्तस्य धारया. मौति संप्रतिपत्तेः कथमुत्तरत्वम् अभियोगा प्रतिकूलत्वादिति वाच्यम्। भाषावादिनो मूखलेनापट करणतया वा कदाचिद्भाषाभिवादादेवायं हीयते इति भाषाविमर्षपर्यन्तं विप्रतिपत्रस्याप्य त्तरवादिनो भाषार्थ सम्यगवगम्य तनिषेधार्थं सम्य. गुत्तरासम्भवात् विहत्सभायां च असत्यवचनमत्यन्ताधर्मकारकम् । परोलिपराजये च दण्डात्वं वादिना च वैरमित्यादि प्रतिसन्दधतः सम्प्रतिपत्तेत्तरत्वं सम्भवत्येव । एवम् एतेभ्य एवानिस्तारात् साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेन साध्यत्वे निवारणात् सिद्धसाधनेनापि वादिनः प्रत्यवस्थानाबोत्तरत्वं सम्प्रतिपत्तेः सिद्धमिति सारं प्रकृतोपयोगि अनाकुलं For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy