SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । पृथिवीपतिः । स्वभावोक्तमक्कत्रिमम् । एतच्च स्वरविशेषादिना सुज्ञेयम् । अतएव याज्ञवल्काः । 'छलं निरस्य भूतेन व्यवहारान्वयेनृपः । भूतमप्यनुपन्यस्त' होयते व्यवहारतः । भूतं तत्त्वार्थ सम्बन्धम् । नारदः । 'भूतं तत्त्वार्थसम्बन्धं प्रमादाभिहितं छलम्' । किन्तु राज्ञा विशेषेण स्वधर्ममभिरक्षता । मनुष्य चित्तवैचित्त्रात् परोक्षासाध्वसाधु वा । 'सर्वे'वर्थविवादेषु वाक्छले नावसीदति । पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान होयते' । सर्वेषु श्रर्थविवादेषु प्रमादाभिधानेऽपि नावसौदति । अवोदाहरणं पशस्त्रौत्यादि अर्थविवादग्रहणान्मन्युक्तविवादेषु प्रमादाभिधाने प्रकृतार्थादम्यर्था - न्धीयत इति गम्यते । यथाहमनेन शिरसि पादेन ताड़ित: इत्यभिधाय केवलं हस्तेन ताड़ित इति वदन्र केवलं दण्डाः पराजीयते च । ततच त्वं मामृणं धारयसि मत्तॠणत्वेन गृहीतताबन्धनकत्वादिति भाषाशरीरम् एतच्च संस्कृत देशभाषान्यतरेण यथाबोधं वक्तव्यं लेख्यं वा । मूर्खाणामपि वादिप्रतिवादिता दर्शनात् श्रतएवाध्यापनेऽपि तथोक्तं विष्णुधर्मोत्तरे । 'संस्कृतैः प्राक्कतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैव बोधयेत् स गुरुः स्मृतः । १८- क २०५ अथोत्तरपादः । तत्र कालमाह कात्यायनः । 'सद्य: कृतेषु कार्येषु मद्य एव विवादयेत् । कालातीतेषु वा काल दद्यात् प्रत्यर्थिने प्रभुः । वा दिनोक्तस्य साध्यस्य प्रतोपमर्थ - यते इति प्रत्यर्थी । नारदः । 'गहनत्वाद्दिवादानामसामर्थ्यात् स्मृतेरपि । ऋणादिषु हरेत् कालं कामं तत्त्ववुभुक्षया' । बृहस्पतिः । ' यदा त्वेवंविधः पचः कल्पितः पूर्ववादिना । दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम्' । सम्बन्ध सुपयुक्तम् । अन्यथा अन्यवादित्वेन भङ्गप्रसङ्गात् । 'अन्यवादी For Private and Personal Use Only -
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy