________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
व्यवहारतत्वम्।
विरोधिप्रतिरोधकः। यदा त्वेवंविध: पक्ष: कल्पितः पूर्ववादिना। दद्यात्तत्यक्षसम्बन्ध प्रतिवादी तदोत्तरम्' । प्रतिज्ञा साध्याभिधायिका वाक् । तस्यादोषैः परस्परविरुद्धार्थपदादिभिस्त्यतं साध्य साधनार्दाभिमतं पक्षं विदुः। अन्यथा प्रतिज्ञादोषण साध्यदोषः स्यात्। अतएवोक्तम्। 'वचनस्य प्रतिज्ञा त्व तदर्थस्य च पक्षता। प्रसङ्करेण वक्तव्ये व्यवहारेषु वादिभिः'। वक्तव्ये पक्षप्रतिजे पूर्वोतो नारदेनापि 'सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता। तहानी हीयते वादी तरंस्तामुत्तरो भवेत्' । उत्तरो विजयो। यद्यपि अन्यत्र साध्यं तहिशिष्टधर्माधर्मीपक्ष इति भेदः तथापि अत्र वाकप्रत्याय्य र्यादिधर्मविशेषविशिष्टतया धर्मिणोऽधमर्णपदैरेव साध्यत्वात् साध्यपक्षयोरमेदाभिधानम् उपसंहारे च एवंविधः पक्ष इति । मिताक्षरायान्तु भाषाप्रतिज्ञापक्ष इति नार्थान्तरमित्युक्तम् । भाषार्थमुवा भाषाखरूपप्रपञ्चमाह वल्पाक्षर इति। निरा. कुल: पौर्वापर्यविपर्यासादिशून्यः । तत्र ‘ाते च व्यवहारे च प्रव्रते यज्ञकर्मणि। यानि पश्यन्त्यदासीना: कर्त्ता तानि न पश्यति' इति रह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा शोधयेत् । तच्छोधनमाह वृहस्पतिः। 'न्यूनाधिकं पूर्वपत्रं तावहादी विशोधयेत्। न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसविधौ। सल्लिखनप्रकारमाह व्यासः। 'पाण्डलेखेन फलके भूमौ वा प्रथमं लिखेत्। न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवे. शयेत्'। फलकं काष्ठादिपट्टकम्। कात्यायनः । 'पूर्वपक्ष स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत्। पाण्डुलेखेन फलके तत: पत्रेऽभिलेखयेत्। शोधयेत् पूर्वपक्षन्तु यावन्नोत्तर दर्शनम्। उत्तरेणावरुदस्य निवृत्तं शोधनं भवेत् । अन्यदुक्तं लिखेद योऽन्यदर्थिप्रत्यर्थिना वचः। चौरवच्छासयेत्तन्तु धार्मिक
For Private and Personal Use Only