SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "व्यवहारतत्त्वम् । १८८ अतएव नारद: । 'अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । देवीं वाचं स वदति यः शास्त्रमुपजीवति' । देवीं देवानुमताम् । धर्मशास्त्रयोस्तु विरोधे लोकव्यवहार एवादरणीय इत्याह स एव । ' धर्मशास्त्रविरोधे तु युक्तियुक्तो विधि: स्मृतः । व्यवहारो हि बलवान् धर्मस्तेनावहीयते' I अवहोयते अवगम्यते हिगतावित्यास्माडातोः । अतएव वृह स्पतिः । ' केवलं शास्त्रमाश्रित्य न कर्त्तव्यो विनिर्णयः । युक्तिहौनविचारे तु धर्महानिः प्रजायते' । युक्तिर्न्यायः स च लोकव्यवहार इति व्यवहारमातृका । अतएव कात्यायनः । 'कुलशीलवयोवृत्त वित्तवद्भिरधिष्ठितम् । वणिग्भिः स्यात् कतिपयैः कुलहरधिष्ठितम् । सद इति शेषः । कात्यायनः । 'सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृण:' । सभ्यः सभायां साधुः । तथाविधानाह याज्ञवल्काः । 'श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः । राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये समाः । श्रुताध्ययनसम्पन्नाः धर्मशास्त्रज्ञाः कुलीनाः सङ्करादिदोषशून्यमातापितृपरम्पराकाः । एवम्भूताः सभासदः सभायां यथा सोदन्ति उपविशन्ति तथा दानमानसत्कारैराज्ञा कर्त्तव्याः । तथाविधावस्थानेन भूमेः सभात्वमाह मनुः । 'यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञः प्रतिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः । विद्दसंहतावपि सभापर्य्यायपरिषच्छन्दमाह स एव । 'त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्मपाठकः । चयश्चाश्रमिणः पूर्वे परिषत् स्याद्दशावराः । त्रैविद्यः विवेदपारग: हैतुकः सदयुक्तिव्यवहारी । अमरसिंहः । 'सभासदसि सभ्ये च' अत्र भा दीप्तिः प्रकाशो ज्ञानमिति यावत् तया सह साक्षात् परम्परया वा वर्त्तते इति अतएव For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy