SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०० Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । स्मृतः । सभा । कात्यायनः । 'दिवसस्याष्टमं भागं मुक्का भागत्त्रयं तु यत् । सकालो व्यवहाराणां शास्त्रदृष्टः परः अष्टम यमाद्याईप्रहरं भागत्रयं प्रहरद्दयपर्यन्तम् । मनुः । 'धर्मासनमधिष्ठाय सम्बीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्' । मनुनारदबौधायनहारीताः । 'पादोऽधर्मस्य कर्त्तारं पादः साचिणमृच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति । राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्त्तारं निन्दार्हो यत्त्र निन्दाते' । कर्त्तारं वादिनं राजपदं विवेचकपरम् अनेना: निष्पापः । अर्थित्वमाहतुर्व्यासमारदौ । 'यस्य चाभ्यधिका पौड़ा कार्य्यं वाप्यधिकं भवेत् । तस्यार्थिभावो दातव्यो न यः पूर्वं निवेदयेत्' । अत्रैव 'पूर्वपक्षो भवेत्तस्य' इति कात्यायनीये तृतीयपादः । न यः पूर्वं निवेदयेदिति तस्योत्तरः पक्ष इति शेषः स यः पूर्वमिति पाठे यः प्रथमं निवेदयति स पूर्ववादीत्यर्थः । बृहस्पतिः । ' अहं पूर्विकया यातावर्थिप्रत्यर्थिनी यदा । वादो वर्णानुपूर्वेण ग्राह्यः पौड़ामवेच्य वा' । यत्र द्वावेव वदतः प्रभो मद्दाका शृणु इति तत्र ब्राह्मणादिक्रमेणाधिकपीड़ादर्शनेन वा वादो ग्राह्यः । स्वयं विवादाशक्तौ प्रतिनिधिमाह नारदः । 'अर्थिना सत्रियुक्तो वा प्रत्यर्थिप्रहितोऽथ वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ' । तयोर्वादिप्रतिवादिनोः । बृहस्पतिरपि । 'ऋत्विग्वादे नियुतव समौ सम्परिकीर्त्तितौ । यज्ञं स्वाम्याप्नुयात् पुण्यं हानिं वादेऽथवा जयम्' । कात्यायनः । 'मनुष्यमारणे स्तेये परदाराभिमर्षणे । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे । पारुष्ये कूटकरणेऽनुपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम्' । कुलस्त्री प्रभृतीनां प्रतिनिधि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy