SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८६ । तरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः । एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य पुत्रस्य सर्ववर्णेष्वयं विधिः । तथा विष्णुः । 'अपुत्रस्य धनं पनाभिगामि तदभावे दुतिगामि तदभावे दौहित्रगामि तदभावे पितृगामि तदभावे मातृगामि तद भावे भ्रातृगामि तदभावे भ्रातृपुत्रगामि तदभावे सकुल्यगामि तदभावे बन्धुगामि तदभावे शिष्यगामि तदभावे सहाध्यायुिगामि तदभावे ब्राह्मणधनवर्जं राजगामि' इति । अत्र अपुत्रपदं पुत्रपौत्रप्रपौत्राभावपरं तेषां पार्वणपिण्डदांटत्वाविशेषात् अतएव बौधायनवचने पुत्रपौत्रप्रपौत्रानुपक्रम्य 'सत्स्वङ्गजेषु तहामौ ह्यर्थो भवति' इत्युक्तं तदुयथा प्रपितामहः पितामहः पिता स्वयं सोदय्या भ्रातरः सवर्णायाः पुत्रः पौत्रः प्रपौव एतानविभक्तदायादान् सपिण्डानाचचते विभक्तदायादान् सकुल्यानाचक्षते सत्स्वङ्गजेषु तगामी हार्थो भवतीति । अस्यार्थः पित्रादिपिण्डत्रयेषु सपिण्डनेन भोक्तृत्वात् पुत्रादिभिस्त्रिभिस्तत्पिण्डस्यैव दानात् यच जीवन् यत् पिण्डदाता स मृतः सन् सपिण्डनेन तत् पिण्डभोक्ता एवं मध्य स्थितः पुरुषः पूर्वेषां जीवन् पिण्डदाता मृतश्च तत् पिण्डभोक्ता परेषां जीवतां पिण्डसम्प्रदानभूत आसीत् मृतैश्च तैः सह दौहित्रादिदेयपिण्डभोक्ता अतो येषामयं पिण्डदाता ये वा तत्पिण्डदातारस्ते अविभक्तं पिण्डरूपं दायमवन्तौति अविभक्तदायादाः सपिण्डाः पञ्चमस्य पूर्वस्य मध्यमः पञ्चमो न पिण्डदाता न च तत्पिण्डभोक्ता एवमधस्तनोऽपि पञ्चमो न मध्यमस्य पिण्डदाता नापि तत्पिण्डभोक्ता तेन वृहप्रपितामहात् प्रभृतित्रयः पूर्वपुरुषाः प्रतिनप्तृतः प्रभृत्यधस्तनास्त्रयः पुरुषा एकपिण्डभोक्तृत्वाभावाद्दिभक्त For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy