________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् । दात् कुर्वतां कर्म प्रच्यवेताहरेषु यत्। स्मरणादेव तहिष्णीः संपूर्ण स्यादिति श्रुतिः। तहिष्णोरिति मन्त्रेण मज्जेदम, पुनः पुनः। गायत्री वैष्णुवी ह्येषा विष्णोः संस्मरणाय वे', मन्त्रश्च तहिष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्'। वामनपुराणे। 'सर्वमङ्गलमङ्गल्यं वरेण्यं सर्वतोमुखम्। नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्' । शातातपपराशरौ। 'अच्छिद्रमिति यहाक्यं वदन्ति क्षितिदेवताः। प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समम्' । क्षितिदेवता विप्राः। अग्निष्टोमफलैरिति स्तुतिः। विष्णुः 'ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः। ब्राह्मणाभिहितं वाक्य न मिथ्या जायते क्वचित् । यत् ब्राह्मणास्तुष्टतमा वदन्ति तद्दे वताः कर्मभिराचरन्ति। तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः' । तदपि ब्राह्मणाय दक्षिणारूपं किञ्चिहत्त्वा ग्राह्यम् । तथाच गोविन्दमानसोल्लासे नारदीयम्। 'सर्वषामप्यलाभेषु यथोक्तकरणं विना। विप्रवाक्य तथा सुभ्र व्रतस्योद्यापलक्षणम्। वृथा विप्रवचो यस्तु गृह्णाति मनुजः शुभे। अदत्त्वा दक्षिणां वापि स याति नरकं ध्रुवम्'। उद्यापः प्रतिष्ठा। ब्राह्मणलक्षणमाह पैठौ. नसि: 'क्षमा दया दमो दानं धर्मः सत्यं श्रुतं वृणा। विद्याविज्ञानमास्ति क्यमेतद् ब्राह्मणलक्षणम्। श्रुतमर्थाववोधः । अतएव मनुः 'चतुभिरपि चैवैतैर्नित्यमामिभिहिजैः। दशलक्षणकोधर्मः सेवितव्यः प्रयत्नतः। धृतिः क्षमा दया स्तेयं शौचमिन्द्रियनिग्रहः। धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम्। तिरिष्टवियोगानिष्टप्राप्तौ चित्तस्य यथा पूर्वमवस्थानम्। इन्द्रियनिग्रहः अप्रतिषिद्धेऽपि विषयेऽनतिप्रसङ्गः। धौहिताहितविवेचकशास्त्रार्थज्ञानं विद्या आत्म
For Private and Personal Use Only