________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
मातरि जीवन्त्यां सोदराणां विभागो न धर्म्यः । यथा शङ्खलिखितौ। 'ऋक्थमूलं हि कुटुम्बमस्वातन्त्रा: पिटमन्तो मातुरप्येवमवस्थितायाः' इति। अतएव व्यासः । 'मातृणां जौवतोः पित्रोः सहवासो विधीयते। तदभावे विभक्तानां धर्मस्तेषां विवई'। विभक्तानां स्वमानधने वैदिककर्मकरणात्तन्मात्नत्वेन तवृद्धिरित्यर्थः। यदि तु विभज्यते तदा मातुर्भागमाह कात्यायनः। 'मातापि पितरि प्रेते पुत्र. तुत्यांशहारिणो'। समांशता तु मातुरप्राप्त स्त्रीधनायाः । प्राप्तस्त्रीधनायास्तु भागाई प्रागुक्तवचनात् । सोद्धारानुद्वाराभ्यां हिप्रकारविभागमाह वृहस्पतिः । दिप्रकारो विभागस्तु दाया. दानां प्रकीर्तितः। वयोज्येष्ठ क्रमेणैक: ममापरांशकल्पना'। वयोज्येष्ठ क्रमेणेत्यु द्धाराभिप्रायेण। शूदे तु उद्दाराभावो वक्ष्यते। समभागस्य शास्त्रीयत्वेऽपि उद्दारपक्षो भत्यति. शयादविरुद्धः। विभागाविभागविकल्पवत्। यथा मनुः । 'ज्येष्ठ एव तु ग्रहीयात् पित्रा धनमशेषतः। शेषास्तमुपजौवेयुर्यथैव पितरं तथा'। नारदः। 'विभृयाहेच्छतः सर्वान् ज्येष्ठो भ्राता यथा पिता। भाताशक्तः कनिष्ठो वा शत्यपेक्षा कुले स्थितिः'। मध्यमोऽत्र दण्डापूपन्यायात सिद्धः। स च न्यायो यथा मूषिकस्य दण्डभक्षणं दुष्करं तनिष्पत्ती तत्. सहचरितापूपभक्षणमिति सुकरत्वात् यथा सम्भाव्यते तथानापि सहचरितैकसिद्धावपरसिद्धेरौचित्यात् तमम्भाव्यते । अतएव अविशेषान्नारदः। 'कुटुम्बार्थेषु चोद्युक्तस्तत् कार्य कुरुते तु यः। स चाटभिहणीयो ग्रासाच्छादनवाहनैः' । एवम्भूतं प्रशंसति व्यासः। 'जीविते यस्य जीवन्ति विप्रा. मित्राणि बान्धवाः। सफलं जीवितं तस्य आत्मार्थ को न जीवति'। हरिवंशे वैपरीत्याहोषमाह इन्द्रं प्रति नारदः ।
For Private and Personal Use Only