________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
१६८
₹
पितुः सवर्णास्तं सत्यौर से तृतीयांशहराः । श्रवापि विशेषमाह मनु: 'औरसक्षेत्रजौ पुत्रौ पितरिक्थस्य भागिनौ । दशापरे च क्रमशी गोवरिकथांशभागिनः । सन्ततिकारकत्वेन धनिदेयपिण्डदाढत्वेन च प्रथमं पुत्रिकापुत्रस्य तदनन्तरं दत्तकस्य गोत्ररिक्ययोर्भागित्वम् । क्रमश: पूर्वपूर्वाभावे परः परः इत्थ ं क्रमेण गोत्रधनयोर्भागिनः । शूद्रस्य दासौपुत्रविभागमाह याज्ञवल्काः । 'जातोऽपि दास्यां शूद्रेण कामतोऽशहरो भवेत् । मृतं पितरि कुर्य्यस्त भ्रातरस्वईभागि नम् । अभ्राटको हरेत् सर्वं दुहितृणां सुताट्टते । कामतः पितुरिच्छातः । अंशहरः पुत्रान्तरतुल्यांशहरः । सति तु दौहित्रे तस्यैव स्वीयसन्तानत्वात् । दासीपुत्रस्य अपरिणीताजातत्वात् । तयोस्तुल्यांशित्वं युक्तमिति । श्रनियोगोत्पन्नक्षेत्रजस्य औरसेन सह विभागमाह मनुः । 'यद्येक ऋक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यद्यस्य पैतृकं रिक्थं स तद्गृह्णौत नेतरः' । एक ऋथिनौ एकस्यां जातो ऋथिनौ । यस्य वीजाद यो जातः स तस्य ऋक्थं ग्टहोयात । इतरोऽन्यवोजजो न गृह्णीयादित्यर्थः । स्त्रीधनं यत् पितृदत्तं यद्दनं स्त्रीयै तद्दौजजस्तद्दनं गृह्णीयात् नान्य इत्याह नारदः । ' हौ सुतौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । तयोर्यद् यस्य पित्रा स्यात् स तदग्टहौत नेतरः ।
अयोपरते पितरि भ्रातृणां विभागः । तव देवलः । 'पितयुपरते पुत्रा विभजेयुर्धनं पितुः । पितुः सकाशादागतधनमित्यर्थः 1 नारद: । 'यदिष्टं पितृदायेभ्यो दत्त्वर्ण पैटर्क ततः । भ्रातृभिस्तद्विभक्तव्यमृणो न स्याद् यथा पित्ता' | पितृदायेभ्यः पित्रा दत्तप्रतिश्रुतभ्यः । ऋषी न स्यादित्यनेनाशक्तौ शोधनीयमित्युत्तमर्णस्थाने स्वीकर्त्तव्यम् ।
१५ क
For Private and Personal Use Only
शत्र