________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
दायतत्त्वम् ।
कृतविभागध्वंसेन यत्तव धनं तम्मम धनं तत्तवापि इत्ये कस्मिन् काये एकहिरूपतया स्थिताः संसृष्टाः । न तु अनैवंरूपाणां धनसंसर्गमात्रेण सम्भयकारिणां वणिजामपि संसर्गित्वं नापि विभक्तानां धममंसर्गमात्रेण प्रौतिपूर्वकाभिसन्धानं विना इत्यभिदधता दायभागकतापि वहस्तितम्। साधारणखत्वादेव हि। 'बन्धूनामविभक्तानां भोगं नैव प्रदापयेत्' । इति कात्यायनवचनं यथाश्रुतं सङ्गच्छते द्रव्यमावे स्वत्वस्यापि सम्भवात् अतएव अत्र चौयं न भवतीति वक्ष्यते। एवध 'माक्षिवं प्रातिभाव्यश्च दानग्रहणमेव च। विभक्ता भातरः कुर्य विभता: परस्परम् । इति नारदवचनेन अविभक्तपरस्थरदानादिनिषेधोऽपि न्यायादेव संगच्छते। दानात् पूर्वमपि सपने प्रतिग्रहीटस्वत्वसम्भवात् दानग्रहणयोरसम्भवः । एवं साक्षित्वप्रातिभाव्ययोजेयम्। स्वत्वाविशेषादेवाविभता. ट्रव्येण यत् कृतं तत्र दृष्टादृष्ट कर्मणि सर्वेषां फलभागिस्वम् । तथाच नारदः। 'भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् । व्यासः । 'स्थावरस्य समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्यात् क्रयं दानं परस्परमतं विना'। पत्र समस्तस्येतिविशेषेण कत्न. धनविषयकमेव प्रत्येकखत्वं प्रतीयते। तस्मात्तुल्यसम्बन्ध्यन्तरस्वत्वे सम्बन्धिसकाशात् संक्रान्तधनं तस्यापि ममापौति सम्बन्धिना प्रतीयते। तहिमतौ स्वार्थ दानादिकं प्रतिषिद्धम् । अतो न वेकदेशगतवत्वमिति सिहम्। भागं विशेषयति बृहस्पतिः । 'पिटरिक्थहराः पुत्राः सर्व एव समांशतः। विद्या. धर्मयुतस्वेषामधिकं लब्ध मर्हति। विद्याविज्ञानशौय्यार्थ जानदानक्रयेषु च। यस्येह प्रथिता कौतिः पितरस्तेन पुत्रिणः'। कालभेदेनापि विभागमाह वृहस्पतिः । 'एका स्त्री
For Private and Personal Use Only