________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम्।
धनभागुत्तरोत्तरः। स्वर्यातस्य घपुत्रस्य सर्ववर्णेष्वयं विधिः' । इति याज्ञवल्कयोक्तः। उत्तरोत्तर इति वीप्साश्रुतेः पूर्वस्येत्यवापि तथा सेन यत्र द्रव्ये यत् स्वामिनः पुत्रत्वादिसम्बन्धाधीनं तत्खत्वोपरमे तत्सम्बन्धिनः स्वत्वं तत्र तं प्रति निरूढ़ो दायशब्दः । पुषत्वादिसम्बन्धाधीनं न तु क्रयाद्यधीनं स्वत्वो परमे न तु पतिस्वत्वसमकालौनपनौस्वत्वयुक्तः। तत्र विभा. गस्तु सम्बन्ध्यन्तरसद्भावेन भूहिरण्यादावुत्पन्नस्य एकदेशगतखत्वस्य विनिगमनाभावात् विशेषव्यवहारानहस्य गुटिकापातादिना अमुकस्येदमिति विशेषेण भजनं स्वत्वज्ञापनमिति वदन्ति तन्न समोचौनम्। यत्र अस्य स्वत्वं तत्रैव गुटिकापात इति कथं वचनाभावानियेतव्यः। यत्र वा पितुर्निधनानन्तरं तदीयाखयोरेकतरमादाय भात्रा यदर्जितं तत्रार्जकस्य हावंशावपरस्यै कः सर्वसम्मत: तत्र यदि प्राचीनधनविभागे गुटिकापातादर्जकेन स एवाखः पश्चानब्धः तदा प्रादेशिकस्वत्ववादिमते प्रागर्जकस्यैव सोऽश्व इति तेनार्जितधने कथं भावन्तरस्य भागः। यदि चाजकेतरेण सोऽखो लब्धः तदा तेनार्जितधनस्य समभागो युक्तः। एकस्य स्वायासेन अपरस्य अश्खायासेनार्जितत्वात्। वस्तुतस्तु पूर्वखामिस्खत्वोपरमे सम्बन्धाविशेषात् सम्बन्धिनां सर्वधनप्रसूतस्वत्वस्य गुटिकापातादिना प्रादेशिकस्वत्व व्यवस्थापन विभागः। एवं कत्नधनगतस्वत्वोत्पादविनाशावपि कल्पेरते संसृष्टतायां प्रादेशिकस्वत्वनाशकत्म्रधनगतस्वत्वोत्पादाविव। एतच्च 'विभक्तो यः पुनः पित्रा धावा चैकत्र संस्थितः। पिटव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते'। इति वृहस्पतिवचने येषामेव हि पिटभ्रापिटव्यादीनां पिपितामहोपार्जितद्रव्येण अविभक्तत्वमुत्पत्तितः सम्भवति त एव विभक्ताः सन्तः परस्परप्रीत्या पूर्व
For Private and Personal Use Only