________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
दायतत्त्वम् ।
स्वत्वं जायते । 'सत्स्वङ्गजेषु तहामी हार्थो भवति' । इति बौधायनवचनात् । पितृखत्वोपर मे पुत्रं षु विद्यमानेषु पुत्रगतं तत्स्वत्वास्पदं धनं भवतीत्यर्थः । यत्त मिताचरायाम् 'उत्पत्त्यैवार्थं स्वामित्वाल्लभेत इत्याचाय्र्याः' इति गौतमवचनं तदपि पितृवत्वोपरमेऽङ्गजत्व हेतुत्वेनोत्पत्तिमात्र सम्बन्धेनान्यसम्बन्धाधिकेन जनकधने पुत्राणां स्वामित्वादनं पुत्रो लभेत नान्यसम्बन्धीत्याचाय्र्या मन्यन्ते । नच पितृखत्वे विद्यमानेऽपि जन्मना तहने मुतखत्वमिति वाच्यम् । देवलवचनविरोधात् । तदुयथा । 'पितर्युपरते पुत्राः विभजेयुईनं पितुः । अवाम्यं हि भवेदेषां निर्दोषे पितरि स्थित' । निर्दोषेऽपतिते । अतएव विभागं प्रक्रम्य नारदः । 'विनष्टे वाप्य शरणे पितर्युपरतस्पृहे' । विनष्टे पतिते । अशरणे गृहस्थाश्रमरहिते । तेन मरणपातित्य गार्हस्थ्येतराश्रमगमनः स्वत्व - ध्वंसे उपरतस्पृहे सत्यपि स्वत्वे स्वगतधनेच्छारहिते च पुत्राणां विभागाधिकारः । अत्र पतितानामपि स्वधन माध्यप्रायवित्तश्रुतेः पातित्येन खत्वनाशः प्रायश्चित्तवैमुख्ये बोध्यः स्वत्वममान-कालीनेच्छाप्रागभावासमानकालीनं च्छाध्वं मत्वमुपरतस्पृचत्वम् । अत्रोपेक्षया स्वत्वे नाशिते पुनरिच्छया न स्वत्वमिति बोध्यम् । तस्मात् देवलवचने पितरि विद्यमाने तने पुत्राणामस्वाम्यश्रुतेः 'उत्पत्त्यैवार्थं स्वामित्वाल्लभत इत्याचार्य्याः' इति गौतमवचनम् । पितृवत्वो परमानन्तरमेव जन्मना पुत्रस्वत्वसम्पादनात् स्वामित्वेन तडने पुत्रो लभेतेत्यतत्परम् । न तु पितृस्वत्वकाले जन्मानन्तरम् । नारदप्रथमवचने पितृपुत्रेति सम्बन्धिमात्रोपलचणम् । दायभागमुपक्रम्य 'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः । एषामभावे पूर्वस्य
For Private and Personal Use Only