SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ उदाहतखम्। अप्रजायान्तु कन्यायां नानीयात्तस्य वै रहे । ब्राह्मदेया विशे. घेण नैव भोज्यं सदैव तु'। मत्स्यसूक्तो 'भुक्का पिटरहे कन्या भुतो स्वामिरहे यदि। दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः'। दक्षः। 'अनाश्रमी न तिष्ठेत्तु दिनमेकमपि हिजः । पात्रमेण विना तिष्ठन् प्रायश्चित्तौयते त्वसौ। जपे होमे तथा दाने स्वाध्याये वा रतः सदा। नासौ फलं समाप्नोति कुर्वाणोऽप्याश्रमच्युतः'। विष्णुपुराणञ्च 'व्रतेषु लोपको यच आश्रमादिच्युतश्च यः। संदंशयातना मध्ये पतनस्तावुभावपि'। अत्र आश्रमादिच्युतश्च य इति सामान्येन दोषाभिधानात् शूद्रस्थापि तथात्वमिति पूर्ववचने हिज इत्युपलक्षणम् । शूद्रस्याप्याश्रममाह पराशरभाष्ये वामन पुराणम् । 'चत्वार आश्रमाश्चैव ब्राह्मणस्य प्रकीर्तिताः। गाहस्य ब्रह्म चर्यच वानप्रस्थञ्च भिक्षुकम्। क्षत्रियस्यापि कथिता आश्रमास्त्रय एव हि। ब्रह्मचर्यच्च गार्हस्थ्यमाश्रमहितयं विशः। गार्हस्थ्यमुचितन्वेक शूद्रस्य क्षणमाचरेत्'। क्षण. मुत्सवरूपम्। पत्र विशेषयति भविष्यपुराणं 'चत्वारिंशदवत्सराणां साष्टानाञ्च परे यदि। स्त्रिया वियुज्यते कश्चित स तु रण्डाश्रमो मतः। अष्टचत्वारिंशदब्दं क्यो यावत्र पूर्यते । पुत्रभा-वियुक्तस्य नास्ति यज्ञाधिकारिता' । एवञ्च प्रौढ़ कन्याया दोषदृष्ट्या विवाहार्थं यथा महागुरोः सपिण्डनापकर्षाधिकारस्तथाऽनामिणोऽपौति। एवञ्च प्रत्यवायश्रुतेः कन्यालाभसत्त्वेऽपि खेच्छया विवाहाकलुजे ठस्य कामतः कारिणस्तथेति प्रामुक्तछन्दोगपरिशिष्टेन परिवेदने पर्य्यदस्तत्वात् तथाविधज्येष्ठे कनिष्ठस्य विवाहे परिवेदनटोषो नास्तीति। पैठौनमिः । 'अलामे चैव कन्याया: स्नातकव्रतमाचरेत् । एतच्च सन्यासानधिकारिणः तदधिकारी For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy