________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
उहाहतत्वम् ।
ऽहनि। देवपूर्व नराख्य हि शर्मवर्मादिसंयुतम्। नर. माचष्टे इति नराख्य नरनाम स्त्रयाख्यवन्मलविभुजादिभ्यश्चेति क इति जिनेन्द्रबुद्धिः अन्यतोऽपि चेति इति वररुचिः। देवपूर्व देवात् पूर्व तच्च 'विशिष्ट शर्मयुक्त शर्मा देवश्च विप्रस्य वर्मत्राता च भूभुजः। भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्' इति यमवचनेऽपि समुच्चयलब्धः 'शर्मान्तं ब्राह्मणस्य स्यात्' इति शातातपौयेन शर्मान्तता च। एवं षष्ठेऽन्नप्राशनं मासि यद्देष्ट मङ्गलं कुले' इति मनुवचनात् चूड़ा कार्या यथा कुलमिति याज्ञवल्कावचनात् 'देशानुशिष्टं कुलधर्ममग्रं स्वगोत्रधर्म न हि संत्यजेच्च' इति वामनपुराणवचनाच्च । संस्कारमात्रेण कुलधर्मानुरोधेन कालान्तरेऽपि मङ्गलदिशेषाचरणम्। शूद्राणां नामकरणे वसुघोषादिपद्धतियुक्तानामत्वञ्च बोध्यम्। देव्यन्तास्तु स्त्रियः स्मृता इति हिजातिस्त्री. परं “शूद्रौदासान्तकाः स्मृता' इति वचनात् तत्पत्नपाश्च पुंयोगाजातेश्चेति ईप्रत्ययेन दास्यन्तता शूटे शिष्टव्यवहारो. ऽपि तथा यत्तु सर्ववणं स्त्रोपरं देयन्ता इति तन्न प्रकरणात् हिजातिपुयोगबाधाञ्च शर्मणी वर्मणौप्रयोगस्तु न व्यवहार्य: देवपूर्व नराख्य स्थादित्यस्य तत्परत्वानौचित्यात् एवमेव कुल्लूकमः तेन वाक्येऽपि तथा कल्पना। अहं पदप्रयोगस्तु 'अहमी ददानीति एवमाभाष्य दीयते' इति छन्दोगपरिशिष्टे तथादर्शनात् ददानौति परगामिनि फले ददे इति श्रात्मगामिफले वाच्यम्। 'देवं गुरु गुरुस्थानं क्षेत्र क्षेत्राधिदेवताः। सिद्धं सिद्धाधिकारांश्च श्री पूर्व समुदीरयेत्'। इति राघवभतप्रयोगसारदर्शनेन स्वर्गकाम्यत्वादिना सिद्धोऽधिकारो येषां तानित्यनेन जीवतां श्रीशब्दादित्वं नाम्नि मृतानान्तु न तथेति शिष्टाः। श्राद्धादौ फलभागिनां गोत्रा.
For Private and Personal Use Only