________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
उद्दाहतश्वम् ।
धृतब्रह्मपुराणवचनाच्च सौर: सूर्य संक्रमः । विनिर्दिशेत् उल्लिखेत्। सौरे रविराश्युल्ले खोऽपि 'संक्रान्तिविहिते कत्ये संक्रान्तिः परिकीर्त्तिता । मासोल्लेखयेतरस्मिन् रविराशिस्थितिस्तथा' इति गारुडात् । संक्रान्तिनिमित्तके संक्रान्तिः कीर्त्तिता । उल्लेखनीयत्वेन कथिता अत्रैव चान्द्रमासोल्लेख मासपदस्य तत्रैव शक्तेः । इतरस्मिन् संक्रान्तिविहितेतरकर्मणि । संक्रान्तेः सौरत्वेन सौरकर्मणौति यावत् । तत्र रविराशिस्थितिरुल्लेखनीया । तथेति मासोल्ल खोऽपि इत्यर्थः । कल्पतरुरत्नाकरयोट ह्यपरिशिष्ट 'कन्यां वरयमानानामेष धर्मों विधीयते । प्रत्यनुखा वरयन्ति प्रतिग्टह्णन्ति प्राङ्मुखाः । वरयन्ति गोत्रप्रवराभिधानपूर्वकं ददति प्रति गृह्णन्ति इति श्रवणात् । अतएव दानधर्मोत्तरे 'सर्वत्र प्राङ्मुखी दाता ग्रहीता च उदङ्म ुखः । एष दानविधिर्हष्टो विवाहे तु विपर्ययः । विपर्यय इति प्रत्यङ्म ुखः संप्रदाता प्रतिग्रहीता प्राङ्म, खः । तथाच शङ्खः 'प्राङ्म ुखाभिरूपाय वराय शुचिसन्निधौ । दद्यात् प्रत्यङ्म ुखः कन्यां क्षणे लक्षणसंयुते' । इति भवदेवभट्टीय सम्बन्धविवेके । प्रवराभिधानमाह मत्स्यपुराणं 'तुला पुरुषदाने च तथाच हाटकाचले । कन्यादाने तथोत्सर्गे कौर्त्तयेत् प्रवरादिकम्' इति हरिशर्मधृताश्वलायनवचनं शिवदत्तप्रपौत्री विष्णुदत्तपौत्री हरिदत्तपुत्रौ यज्ञदत्ता कन्या शिवमित्रप्रपौवाय विष्णुमिवपौत्राय राममित्रपुत्राय रुद्रमित्राय तुभ्यं संप्रदत्तेति दृष्टार्थत्वात् 'वचसां क्तप्रत्ययर्था विवक्षा तेन संप्रददे इत्येव प्रयोगः न संप्रदत्तेति । तथाच व्यासः 'नामगोत्रे समुच्चार्य प्रदद्यात् श्रयान्वितः । परितुष्टेन भावेन तुभ्यं संप्रददे इति' नामप्रदेशमाह विष्णुपुराणं ' ततश्च नाम कुर्वीत पितैव दशमे -
For Private and Personal Use Only
१४३