________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदाहतत्त्वम् ।
मन्तरेण हरन् दण्ड्यो भवति यच्च वरेण दत्तं हिरण्यादिकं तत् सवृद्धिकं कन्यापिता दद्यात् वाग्दत्तायां मृतायां वरो दत्तमादद्यात् उभयव्ययं परिशोध्य यदवशिष्टमिति । दक्षः । 'मातापितृविहीनन्तु संस्कारोडहनादिभिः । यः स्थापयति तस्येह पुण्यसंख्या न विद्यते । मत्य सूक्ते 'बलिकर्मणि यात्रायां प्रवेशे नववेश्मनः । महोत्सवे च मङ्गल्ये तत्र स्त्रीणां ध्वनिः शुभः । ध्वनि: हुलुहलुध्वनिः । हुलुहलुध्वनिः । दाक्षिणात्यास्तु 'आसने शयने दाने भोजने वस्त्रसंग्रहे । विवादे च विवा च तुतं सप्तसु शोभनम्' । अन्यत्र तु विष्णोरित्यधिकृत्य विष्णुधर्मोत्तरं 'नामसंकीर्त्तनं नित्य' क्षुत्प्रश्रम्मलितादिषु । वियोग शीघ्रमाप्नोति सर्वानर्थो न संशयः' अतएव विष्णुपुराणम् । ' स्मृते सकल कल्याणभाजनं यत्त्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम्' । विष्णुधर्मोत्तरे 'नासंवृतमुखः कुर्य्या'वास्यं जृम्भां तथा क्षुतम्' । श्रीपतिरत्नमालायाम् । ' आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतकेषु च । बन्धमोक्षमखदीचणेष्वपि चौरमिष्टमखिलेषु च चोडषु' । चौर क्षुरिकर्म तेन स्त्रिया अपि नख कृन्तनम् । महाभारते 'रात्रौ दानं न शंसन्ति विना चाभयदक्षिणाम् । विद्यां कन्यां द्विजश्रे ष्ठादौपमन' प्रतिश्रयम्' । अभयदक्षिणाम् अभयदानं तथाच रामायणं 'पय्र्य्याप्तदक्षिणस्यापि नाश्वमेधस्य तत्फलम् । यत्फलं याति सन्त्रासे रक्षिते शरणागत' । अकरणे निन्दामाह महाभारते 'प्राणिनं बध्यमानं हि यः सक्ताः समुपेक्षते । स याति नरकं घोरमिति प्राहुर्मनीषिणः । प्रतिश्रयं प्रवासिनामाश्रयम् । विवाहे रात्रौ दानान्तरमप्याह देवलः 'राहुदर्शन संक्रान्ति विवाहात्ययवृद्धिषु । खानदानादिकं कुर्य्युर्निशि काम्यत्रतेषु च' । ज्योतिःसारसंग्रहे 'विवाहे तु
For Private and Personal Use Only
१४१