________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
उहाहतत्त्वम् ।
तद्धर्मार्थेतरदानपरम् । एवञ्च शास्त्रदेशितं फलं प्रयोतरौति. न्यायेन पित्रादयो न व्यावतन्त । तेषामपि शास्त्रदेशितफलभागित्वात् किन्तु वेतनेन प्रवर्तमाना होमदेवररहतड़ागादिषु ऋत्वि स्वपतिखनिटप्रभृतयो न फलभागिनः । अतएव ऋविक्विषयिका श्रुतिः दीक्षितमदीक्षिता दक्षिणादिभिः क्रौता ऋत्विजोयाजयेरनिति इतरेषामपि लोकव्यव. हारादेव धनार्थित्वमात्रम् । काश्यपः । 'शुल्केन ये प्रयच्छन्ति वसुतां लोभमोहिताः । आत्मविक्रयिणः पापा महाकिल्विषकारिणः । पतन्ति नरके घोरे नन्ति चासप्तमं कुलम् । गमना. गमने चैव सर्व: शुल्कोऽभिधीयते' । गमनागमने पारितोषिक. द्रव्यमादाय कन्याप्रदानार्थ कन्यापिटवेश्मयातायाते अत्र लोभमोहिता इत्यनेन स्वार्थ न ग्राह्य कन्याहणार्थन्तु ग्रहणे न दोषः ‘यासां नाददते शुल्क ज्ञातयो न स विक्रयः। अहणं यत् कुमारीणामानृशंस्यं हि केवलम्'। आनृशंस्थमनुकम्पा प्रतएव मनुः । 'आददीत न शूद्रोऽपि शुल्क दुहितरं ददत्' एवञ्च रत्नाकरकृतयमवचने यत् शूद्रसम्प्रदानकदानमुक्तं तत् कन्यादानविषयकमपि तद्यथा 'शूटे समगुणं दानं वैश्ये विगुणमुच्यते । क्षत्रिये षड्गुणं प्रोक्तं विप्रे दशगुणं स्मृतम्' । अतएव मदनपारिजाते भरद्वाजः 'साधारणं स्यात्चिविधं विदुस्तञ्च क्रमागतम्। प्रीतिदानं तथैवान प्राप्तञ्च सह भार्यया । अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम्'। यत्त 'चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः'। इति मनुना प्रशस्तत्वेनाभिहित तदपि प्रागुक्तकन्याहणार्थविषयम्। याज्ञवल्काः। 'दत्ता कन्यां हरन् दण्डो व्ययं दद्याच्च सोदयम् । मृतायां दत्तमादद्यात् परिशोध्यो भयव्ययम्'। वाचा दत्तां कन्यां कारण
For Private and Personal Use Only