________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
उद्वाहतत्त्वम् ।
सूत्रेण विकल्पदर्शनात् 'सूतके च प्रवासे च अशक्तौ श्राड. ' भोजने। एवमादिनिमित्तेषु हावयेदिति योजयेत्' इति छन्दोगपरिशिष्टीये आदिशब्दात् होममात्रे हावयेदिति श्रुतस्तथाकल्पाते एवं शूद्रस्यापि ब्राह्मणहारा विवाहादौ होमाधिकारः। विष्णुधर्मोत्तरे 'विवाहादिक्रियाकाले तत् क्रियासिद्धिकारकम्। यः प्रयच्छति धर्मज्ञ: सोऽखमेधफलं लभेत्'। प्रादिशब्दात् यज्ञोपनयनप्रतिष्ठादिग्रहणमिति दानवाक्यावली मनुः 'अभिरेव हिजाग्राणां कन्यादानं प्रश. श्यते। इतरेषास्तु वर्णानामितरेतरकाम्यया'। उदककरणकमेव ब्राह्मणानां कन्यादानं प्रशस्य ते क्षत्रियादीनां पुनर्दारप्रतिग्रहोत्रोर्दानग्रहलेच्छाकरणेन जलं विनापि दानं प्रशस्यते न तु जलकरणकत्वं तेषां निषियते व्यवहारोऽपि यथा रत्नाकरवद्भिस्तु कन्यावरयोः परस्परानुरागण इति । बौधायन: 'श्रुतशोलिने विज्ञाय ब्रह्मचारिणेऽर्थिने देया' इति सब्रह्म इति ब्रह्मचारिणे अजातस्त्रीसम्पर्कायेति कल्पतरुयाज्ञवल्का दीपकलिके। जातपरिणीतस्त्रीसङ्गमस्य हितोयविवाहे विवाहाटकवहिर्भावापत्तेस्तदुपादानं प्राशस्त्यथमिति तत्त्वं ब्राह्मयानुवृत्तौ संवत: 'तां दत्त्वा तु पिता कन्यां भूषणाच्छा. दनासनैः। पूजयन् वर्गमाप्नोति नित्य मुत्सवत्तिषु' । स्वग नित्यं चिरकालोनम उत्सवानां वाद्यादौनां वर्तमानेषु सत्स दत्त्वेति सम्बन्धः। ततफलमान: मत्स्य पुराणम् । 'मङ्गल्यानि च वाद्यानि ब्रह्म घोषञ्च गोतकम्। ऋद्धार्थ कारये डोमानमङ्गल्यविनाशनम्'। यमः। 'कूपारामप्रपाकारौ तथा वृक्षादिगेपकः। कन्या प्रदः सेतुकारो स्वर्ग माप्रोत्यसंशयम्'। अतएव मत्स्य पुराणम् 'शास्त्र युक्तमसन्दिग्ध बहुद्दारमहाफलम्। दशपुत्वसमा कन्या यापि
For Private and Personal Use Only