________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३४
उद्दाहतश्वम् ।
।
व्यम् । 'न योषिाः पृथग्दद्यादवसान दिनादृते । खभर्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता' इति छन्दोगपरिशिष्टे पर्युदस्तत्वात् न च अवसानदिनेतरत्र योषियोऽपृथग्दद्यान् यतः स्वभर्तुः पिण्डांशेभ्य उभयोई श्यकदत्तेभ्य एव योषितां तृप्तिः पुरुषाणां योषिज्जीवनादौ पृथक्पिण्डादपि तृप्तिमत्त्वात् योषित्पदमपि सार्थकमिति वाच्यं तथात्वेऽवमानदिनाहते इति व्यर्थं स्यात् तथाहि परिप्राप्त योषितां श्रापृथक्त्व'. विधीयते किंवा अपृथक् श्राद्ध' विशिष्टं विधीयतं नाद्यः अमावस्यादौ योषिद्दानाप्राप्तौ कथं तदन्द्याऽपृथक्त्वमात्र विधानं न च अमावास्यायां पितृभ्यो दद्यादित्यत्र प्रेते पिटत्वमापन्ने सपिण्डीकरणादन्विति विष्णुपुराणीयेन योषितामपि पिटत्वात् श्रादप्राप्तिरिति वाच्च पितृभ्यो दद्यादित्यत्र पितृपदं न प्राप्तपितृलोकमात्रपरम् । किन्तु पितृपितामहप्रपितामहमात्रपरम् असावेतत्त इति यजमानस्य पित्रे असा वेतत्ते इति यजमानस्य पितामहाय असावेतत्ते इति यजमानस्य प्रपितामहायेति श्रुत्याद्येकवाक्यत्वात् 'त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्त्तते । चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते इति मनुवचने त्रयाणामित्यनेन पितृपितामहप्रपितामहानां पतोनिरपेक्षाणां तर्पणवह वतात्वावगमाच्च मातामहादिलाभस्तु 'पितरो यत्र पूज्यन्त े तत्र मातामहाध्रुवम् । श्रविशेषेण कर्त्तव्यं विशेषानरकं व्रजेत्' इति वृद्धयाज्ञवल्कावचनात् मातामहा इति तदादित्रिकपरम् इत्यादि बहुवचनान्ता गणस्य संसूचका इत्युक्तः श्राद्धेतिकर्त्तव्यतायां मातामहादिविकोपादानाच्च । नान्त्यः तदा ह्यवसानदिनाइत इति व्यर्थं स्यात् अवसानदिने तु 'ध्रुवाणि तु प्रकुर्वीत प्रमौताहनि सर्वदा' इति छन्दोगपरिशिष्टवचनेन स्त्रीषु'सयोः
For Private and Personal Use Only